________________
. महानिर्ग्रन्थीयमध्ययनम् ]
२०,
इदानीं स साधुर्वदति -
अणाहो मि महाराय, नाहो मज्ज न विज्जई । अणुकंपयं सुहियं वावि, कंचि णाभिसमेमहं ॥ ९ ॥
हे महाराज ! अहमनाथोऽस्मि, न विद्यते नाथो-योगक्षेमविधाता यस्य सोऽनाथः, निःस्वामिकोऽस्मि । मम नाथो न विद्यते इत्यर्थः । पुनरहं कञ्चित्कमप्यनुकम्पकं कृपाचिन्तकं सुहितं सुहृदं मित्रं वा नाभिसमेमि-न सम्प्राप्नोमि, केनापि दयालुना मित्रेण वा सङ्गतोऽहं न, अनेनार्थेन तारुण्येऽपि प्रव्रजित इति भावः ॥ ९ ॥
तओ पहसिओ राया, सेणिओ मगहाहिवो ।
एवं ते इड्डिमंतस्स कहं नाहो न विज्जई ॥ १० ॥
ततस्तदनन्तरं श्रेणिको मगधाधिपो राजा प्रहसितः । हे महाभाग्यवान् ! 'ते' तव ऋद्धिमत - ऋद्धियुक्तस्य कथं नाथो न विद्यते ॥ १० ॥
होमि नाहो भयंताणं, भोगे भुंजाहि संजया । मित्तनाहिं परिवुड, माणुस्सं 'खलु दुल्लहं ॥ ११ ॥
[ ३
पूज्याः ! अहं 'भयंताणं' इति भदन्तानां पूज्यानां युष्माकं नाथो भवामि । यदा भवतां कोऽपि स्वामी नास्ति, तदाहं भवतां स्वामी भवामि । यदाऽनाथत्वाद्युष्माभिर्दीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः । हे संयत ! हे साधो ! भोगान् भुङ्क्ष्व, कीदृशः सन् ? मित्रज्ञातिभिः परिवृतः सन् । हे साधो ! खलु निश्चयेन मानुष्यं दुर्लभं वर्तते । तस्मान्मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु ॥ ११ ॥
अथ मुनिर्वदति
-
अप्पणा व अणाहो सि, सेणिया मगहाहिवा ।
अप्पणा अणाहो संतो, कहं नाहो भविस्ससि ॥ १२ ॥
हे राजन् श्रेणिक ! मगधाधिप ! त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वम्, तदा त्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥
एवं वृत्तो नरिंदो सो, सुसंभंतो सुविहिओ ।
वयणं अस्सुयं पुव्वं, साहुणा विम्हयं निओ ॥ १३॥
"
स नरेन्द्रः साधुनैवमुक्तः सन् विस्मयं नीतः, आश्चर्यं प्रापितः कीदृशो नरेन्द्रः ? सुसम्भ्रान्तोऽत्यन्तं व्याकुलतां प्राप्तः । पुनः कीदृश: ? सुविस्मितः, पूर्वमेव तद्दर्शनात्सञ्जा१ खु सुदुल्लाहं - अन्यसंस्करणे ॥