________________
२]
[ उत्तराध्ययनसूत्रे-भाग-२
तत्र वने स श्रेणिको राजा साधुं पश्यति । कीदृशं साधुं ? संयतं सम्यक् प्रकारेण यतं - यत्नं कुर्वन्तम् । पुनः कीदृशं ? सुसमाधितम्, सुतरामतिशयेन समाधियुक्तम् । पुनः कीदृशं ? वृक्षमूले निषण्णं-स्थितम् । पुनः कीदृशं ? सुकुमालम् । पुनः कीदृशं ? सुखोचितं सुखयोग्यम् ॥ ४ ॥
तस्स रूवं तु पासित्ता, राइणो तंमि संजए । अच्चंतपरमो आसी, अउलो रूवविम्हओ ॥ ५ ॥
राज्ञः श्रेणिकस्य तस्मिन् संयते साधावत्यन्तपरमोऽधिकोत्कृष्टोऽतुलो निरुपमो रूपविस्मयो रूपाश्चर्यमासीत् । किं कृत्वा ? तस्य साधो रूपं दृष्ट्वा । तुशब्दोऽलङ्कारे ॥ ५ ॥ अहो वन्नो अहो रूवं, अहो अज्जस्स सोमया ।
अह खंती अहो मुत्ती, अहो भोगे असंगया ॥ ६॥
तदा राजा मनसि चिन्तयति, अहो इत्याश्चर्ये, आश्चर्यकार्यस्य शरीरस्य वर्णो गौरत्वादिः । अहो आश्चर्यकृदस्य साधो रूपं लावण्यसहितम् । अहो आश्चर्यकारिण्यस्याऽऽर्यस्य सौम्यता, चन्द्रवन्नेत्रप्रियता । अहो ! आश्चर्यकारिणी अस्य क्षान्तिः क्षमा । अहो ! आश्चर्यकारिणी चास्य मुक्तिर्निर्लोभता । अहो ! आश्चर्यकारिण्यस्य भोगेऽसङ्गता, विषये निःस्पृहता ॥ ६ ॥
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई ॥ ७ ॥
तस्य साधोः पादौ वन्दित्वा, पुनः प्रदक्षिणां कृत्वा, राजा नातिदूरम्, नात्यासन्नः, नातिदूरवर्ती, नातिनिकटवर्ती सन्, प्राञ्जलिपुटो - बद्धाञ्जलिः पृच्छति प्रश्नं करोति ॥ ७ ॥ तदा श्रेणिकः किं पृच्छति ?
तरुण सि अज्जो पव्वइओ, भोगकालंभि संजया ! | उवओसि सामने, एयमट्टं सुणामि ता ॥ ८ ॥
आर्य ! हे साध ! त्वं तरुणोऽसि युवाऽसि । हे संयत ! हे साधो ! तस्माद् भोगकाले - भोगसमये प्रव्रजितो - गृहीतदीक्षः, तारुण्यं हि भोगस्य समयोऽस्ति, न दीक्षायाः समयः । हे संयत ! तारुण्ये भोगयोग्यकाले त्वं श्रामण्ये दीक्षायामुपस्थितोऽसि, आदरसहितोऽसि । एतदर्थमेतन्निमित्तं त्वत्तः श्रृणोमि किं दीक्षायाः कारणं ? कस्मान्निमितीक्षा त्वया गृहीता ? तत्कारणं त्वन्मुखात् श्रोतुमिच्छामीत्यर्थः ॥ ८ ॥
-