SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र भाग-२ ॥२० महानिर्ग्रन्थीयमध्ययनम् ॥ पूर्वस्मिन्नध्ययने साधूनां निष्प्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयित्वा, नानुमन्तव्येत्युक्तम् । अथ विंशत्यऽध्ययने सा निष्प्रतिकर्मता महानिर्ग्रन्थस्य हिता, अतोऽनाथत्वपरिभावनया सेत्युच्यते - सिद्धाणं णमो किच्चा, संजयाणंच भावओ। __ अत्थधम्मगई 'तत्थं, अणुसिद्धिं सुणेह मे ॥१॥ भो शिष्याः ! 'मे' ममानुशिष्टि-शिक्षां यूयं श्रृणुत । किं कृत्वा ? सिद्धान् पञ्चदशप्रकारान्नमस्कृत्य, च पुनर्भावतो - भक्तितः संयतान्-साधूनाचार्योपाध्यायादिसर्वसाधूनमस्कृत्य । कीदृशीं मेऽनुशिष्टिं ? अर्थधर्मगतिम्, अर्थ्यते - प्रार्थ्यते धर्मात्मभिः पुरुषैरित्यर्थः, स चासौ धर्मश्चार्थधर्मस्तस्य गतिर्ज्ञानं यस्यां साऽर्थधर्मगतिस्ताम् । द्रव्यवद्यो दुष्प्राप्यो (पो) धर्मस्तस्य धर्मस्य प्राप्तिकारिकाम् । यया शिक्षया मम दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः । पुनः कीदृशीं मेऽनुशिष्टिं ? तथ्यां-सत्याम्, अथवा तत्त्वं तत्वरूपां वा ॥१॥ पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेइए ॥ २ ॥ श्रेणिको नाम राजा, एकदा मण्डितकुक्षिनाम्नि चैत्ये-उद्याने विहारयात्रयोद्यानक्रीडया निर्यातः, नगरात्क्रीडा) मण्डितकुक्षिवने गत इत्यर्थः । कीदृशः श्रेणिको राजा? मगधाधिपो, मगधानां देशानामधिपो मगधाधिपः । पुनः कीदृशः ? प्रभूतरत्नः प्रचुरप्रधानगजाश्वमणिप्रमुखपदार्थधारी ॥२॥ अथ मण्डितकुक्षिनामोद्यानं कीदृशं वर्तते ? तदाह - नाणादुमलयाइन्नं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उज्जाणं नंदणोवमं ॥ ३ ॥ __ कीदृशं तद्वनम् ? नानादुमलताकीर्ण-विविधवृक्षवल्लीभिर्व्याप्तम् । पुनः कीदृशं ? नानापक्षिनिषेवितम्, विविधविहङ्गैरतिशयेनाश्रितम् । पुनः कीदृशं ? नानाकुसुमसंछन्नंबहुवर्णपुष्पैर्व्याप्तम् ।पुनः कीदृशं तदुद्यानं ? नागरिकजनानां क्रीडास्थानम् । नगरसमीपस्थं वनमुद्यानमुच्यते । पुनः कीदृशं ? नन्दनोपमम्, नन्दनं - देववनं तदुपमम् ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसण्णं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥४॥ १ तच्च-अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy