________________
१९०]
[ उत्तराध्ययनसूत्रे -भाग-२
यस्य स पश्चानुतापः (किमेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मकः ), तपसः प्रभावो भवान्तरे भोगानां भोक्ता स्यामित्यादिचिन्तनं तपःप्रभावस्तं, अथवे हैवामर्षौषध्यादिलब्धिमान् स्यामित्यादिकं नेच्छेत् ॥ १०४ ॥
ओ से जायंति पओयणाइ, निमज्जिउं मोहमहण्णवंमि । सुसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उज्जमए य रागी ॥ १०५ ॥
ततः कषायवेदादिनां प्राप्तेरनन्तरं तस्येन्द्रियचौराणां वशीभूतस्य मोहमहार्णवे - मोहमहासमुदे निमज्जयितुं, तं जीवं बूडयितुं प्रयोजनानि विषयसेवनहिंसादीनि जायन्ते उत्पद्यन्ते । किमर्थमेतानि विषयसेवनहिंसादीनि प्रयोजनानि जायन्ते ? दुःखस्य विनोदनार्थंपरिहारार्थं, सुखैषितायां हि दुःखपरिहाराय विषयसेवनादि प्रयोजनसम्भव इति भावः । कीदृशस्य तस्य ? सुखैषिण इन्द्रियसुखाभिलाषिणः । ततश्च तत्प्रत्ययम्, तेषां पूर्वोक्तानां विषयसेवाहिंसादीनां प्रयोजनानां प्रत्ययं निमित्तं तत्प्रत्ययं, तदर्थं तन्निमित्तं रागी द्वेषी च जीव: 'उज्जमए' इत्युद्यच्छते - उद्यमं कुरुते ॥ १०५ ॥
-
विरज्जमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा । न तस्स सव्वेवि मणुन्नयं वा, निव्वत्तयंति अमणुन्नयं वा ॥ १०६ ॥
तावत्प्रकारास्तावन्तः प्रकारा भेदा येषां ते तावत्प्रकाराः खरमृद्वादिभेदा: शब्दरूप - रसगन्धस्पर्शाः सर्वेऽपीन्द्रियार्थास्तस्य पूर्वोक्तस्य विरज्यमानस्य विरागिणो रागद्वेषरहितस्य पुरुषस्य मनोज्ञत्वं वा मनोज्ञत्वं च न निर्वर्तयन्ति नोत्पादयन्ति । रागद्वेषाभ्यां विषयेषु मनोज्ञत्वममनोज्ञत्वं च नोत्पाद्यते । यो हि रागद्वेषाभ्यां रहितस्तस्य विषयाः किं कुर्वन्तीति
भावः ॥ १०६ ॥
एवं ससंकष्पविकप्पणासु, संजायई समयमुवट्ठियस्स । अत्थे य संकप्पयओ तओ से, पहीयए कामगुणेसु तन्हा ॥ १०७ ॥
एवममुना प्रकारेण स्वसङ्कल्पविकल्पनासूपस्थितस्य पुरुषस्य तथार्थान् (इन्दियार्थान् ) सङ्कल्पयतः पुरुषस्य च समत्वं सञ्जायते । स्वस्यात्मनः सङ्कल्पा रागद्वेषमोहास्तेषां विकल्पनाः स्वरूपदोषहेतुविचारणाः सङ्कल्पविकल्पनास्तासूपस्थितस्योद्यमयुक्तस्य, च पुनरर्थानिन्द्रियार्थान् शब्दादिविषयान् विचारयतः, यतो रूपादय इन्द्रियार्था मत्तः सकाशात्पृथगेव तिष्ठन्ति त एते पापहेतवः, पापहेतवस्तु स्वस्मिन् स्थिता रागद्वेषादय इति विचारयतः, एतावता रागद्वेषादीनां स्वरूपं चिन्तयतः, इन्द्रियार्थस्वरूपं चिन्तयतः पुरुषस्य माध्यस्थ्यमुत्पद्यते, अथवाऽर्थान् सङ्कल्पयतो विचारयतः समता सञ्जायते । यदुक्तं१"जीवाइ नवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं" । 'तओ से' इति ततः समत्वोत्पत्तितस्तस्य पुरुषस्य कामगुणेषु विषयेषु तृष्णा - लोभः प्रकर्षेण हीयते ॥ १०७ ॥
१ जीवादिन् नवपदार्थान् यो जानाति तस्य भवति सम्यक्त्वम् ।