________________
३२, प्रमादस्थानाख्यमध्ययनम्]
[१९१ स वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं। तहेव जं दरिसणमावरेइ, जं अंतरायं पकरेइ कम्मं ॥ १०८ ॥
यस्य पुरुषस्य कामगुणेषु शब्दादिषु लोभो निवर्तते, स निर्लोभी वीतरागः कृतसर्वकृत्यः सन्-कृतसर्वकार्यः सन् क्षणेन ज्ञानावरणं पञ्चविधं क्षपयति । तथैव यद्दर्शनं चक्षुर्दर्शनावरणं, यच्चान्तरायं दानादिलब्धेर्विघ्नं प्रकरोति, तत्कर्मान्तरायनामकर्मेत्यर्थः, तदपि क्षपयति ॥ १०८ ॥ सव्वं तओ जाणइ पासए य, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥
ततः कर्मक्षयानन्तरं सर्वं जानाति, सर्वं पश्यति च, तदाऽमोहनो मोहनीयकर्मरहितः सन्निरन्तरायोऽन्तरायकर्मरहितो भवति । पुनरनाश्रवो भूत्वा ध्यानसमाधियुक्तश्चायुःक्षये शुद्धः सन् मोक्षमुपैति ॥ १०९॥
सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेयं । दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो ॥११० ॥
स मोक्षगामी पुरुषस्तस्माद् दुःखान्मुक्तो भवति । तस्मात् कस्मात् ? यदुःखमेतं जन्तुमेतं प्राणिनं सततं-निरन्तरं बाधते पीडयति, तस्मात्सर्वस्मादुःखान्मुक्तो भवति । कीदृशः स मोक्षगामी पुरुषः ? दीर्घामयविप्रमुक्तः दीर्घाणि प्रलम्बस्थितीनि यानि कर्माण्येवामया - रोगा दीर्घामयास्तेभ्यो विशेषेण प्रमुक्तो भवति, दीर्घामयविप्रमुक्तो दीर्घकर्मरोगरहितः । पुनः कीदृशः ? अत एव प्रशस्तः प्रशंसायोग्यस्ततः कर्मरोगाऽभावादत्यन्तसुखी कृतार्थः- कृतकृत्यः सिद्धो भवतीत्यर्थः ॥ ११० ॥
अथ निगमनमाह- .. अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥१११ ॥त्तिबेमि ॥
तीर्थकरैरेष सर्वस्य संसारदुःखस्य प्रमोक्षमार्गो व्याख्यातः, यं प्रमोक्षमार्ग क्रमेण समुपेत्य-सम्यक् प्रतिपद्य सत्त्वा:-प्राणिनोऽत्यन्तं सुखिनो भवन्ति । कीदृशस्य सर्वस्य दुःखस्य ? अनादिकालप्रभवस्येत्यहं ब्रवीमीति सुधर्मा स्वामी जम्बूस्वामिनं प्राह ॥१११ ॥ -- इति प्रमादस्थानाख्यमध्ययनम् सम्पूर्णम् ॥ ३२ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् सम्पूर्णम् ॥ ३२ ॥