________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[१८९ अथ विकृतेः स्वरूपमाहकोहं च माणं च तहेव मायं, लोभं दुगंछं अइं इं च । हासं भयं सोगपुमित्थिवेयं, नपुंसेवयं विविहे य भावे ॥१०२ ॥ आवज्जई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१०३ ॥
युग्मम् ॥ कामगुणेषु शब्दादिविषयेषु सक्तो रागी जीव एवममुना रागवत्वलक्षणप्रकारेणानेकरूपान्नानाविधान् विकारानेवंविधानुक्तस्वरूपाननन्तानुबन्धिप्रमुखानापद्यते - प्राप्नोति । च पुनरेतत्प्रभवानेतेभ्यः क्रोधादिभ्यः प्रभवा उत्पन्ना एतत्प्रभवास्तानेतत्प्रभवान् क्रोधादिजनितान् परितापदुर्गतिपातादिन् प्राप्नोति । कीदृशः सन् ? करुणायै अर्हः-कारुण्यः, कारुण्यत्वेन दीनः कारुण्यदीनोऽत्यन्तं दीन इत्यर्थः । पुनः कीदृशः ? हीमान्-लज्जितः प्रीतिविनाशादिकमिहैवानुभवन्, परत्र च विपाकमतिकटुकं परिभावयन् । पुनः कीदृशः ? 'वइस्से' इत्यार्षत्वाद् द्वेष्यः सर्वत्राप्रीतिकर इत्यर्थः । इति द्वितीयगाथया सम्बन्धमुक्त्वा प्रथमाया अर्थमाह-विषयासक्तो जीवः कान् कान् स्वरूपानापद्यते ? इत्याह-विषयासक्तो जीवः कदाचित्क्रोधं प्राप्नोति, च पुनर्मानं प्राप्नोति, तथैव मायां प्राप्नोति, तथा लोभं मूर्छा प्राप्नोति, 'दुगंछं' इति जुगुप्सां प्राप्नोति, विपरीतं सटितं क्वथितं वा दृष्ट्वा 'सूकरूपां, तथाऽरतिमुद्वेगरूपां, रति हर्षरूपां, हास्यं च प्राप्नोति । तथा भयमपि प्राप्नोति, तथा शोकपुंस्त्रीवेदं,शोकं प्रियवियोगजं मनोदुःखरूपं, पुंवेदं स्त्रिया सह विषयाभिलाषरूपं, स्त्रीवेद-पुरुषेण सह विषयाभिलाषं, शोकश्च पुंस्त्रीवेदश्च शोकपुंस्त्रीवेदं तदपि विषयासक्तो जीवः प्राप्नोति । तथा पुनः कदाचिन्नपुंसकवेदं प्राप्नोति, स्त्रीपुंसोरुभयोविषयाभिलाषरूपं नपुंसकवेदं लभते । च पुनर्विविधान् भावान् हर्षविषादादीन् प्राप्नोतीति गाथाद्वयार्थः ॥१०२ ॥१०३॥
अथ रागद्वेषोद्धरणे उपायं, पुना रागद्वेषयोरनुद्धरणे प्रकारान्तरेण दूषणं चाहकप्पंन इच्छिज्ज सहायलिच्छू, पच्छाणुतावे य तवप्पभावं। एवं वियारे अमियप्पगारे, आवज्जई इंदियचोरवस्से ॥१०४ ॥
साधुः सहायलिप्सुः सन् कल्पमपि नेच्छेत्, तदाऽकल्पं कथमिच्छेत् ? च पुनः साधुः पश्चानुतापः संस्तपःप्रभावमपि नेच्छेत् । अत्र हेतुमाह-इन्द्रियचौरवश्यः पुमानमितप्रकारान् बहुविधानेवं पूर्वोक्तान् विकारानापद्यते-प्राप्नोति । कल्पते स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पो योग्यस्तं कल्पं स्वाध्यायादियोग्यं सहायं, मम विश्रामणां करिष्यतीति बुद्ध्या शिष्यं लिप्सतीति सहायलिप्सुस्तादृशः सन् पश्चाव्रततपसोरङ्गीकारादनन्तरमनुतापं १ सूग चडे तेवू ।