________________
१८८]
[उत्तराध्ययनसूत्रे-भाग-२ एमेव भावंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥९८ ॥
एवमेव यथा भावे रागं प्राप्तो दुःखौघपरम्परया प्रदुष्टचित्तः सन्नष्टप्रकारकं कर्म चिनोति । तथा भावे चित्ताभिप्राये प्रद्वेषं गतो जन्तुर्दुःखौघपरम्परया प्रदुष्टचित्तः सन् तत्कर्म चिनोति बध्नाति, यत्कर्म तस्य जीवस्य विपाके-कर्मवेदनकाले दुःख-दुःखविधायि भवति ॥९८ ॥
भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वसंतो, जलेण वा पुक्खरिणीपलासं ॥९९ ॥
भावे विरक्तः सङ्कल्पाद्विमुक्तो मनुष्य एतया पूर्वोक्तया दुःखौघपरम्परया भवमध्ये वसन्नपि न लिप्यते । कीदृशः सः ? विशोको विगतशोकः, केन कमिव ? जलेन पद्मिनीपत्रमिव ॥ ९९ ॥
एताभिस्त्रयोदशगाथाभिर्भावाधिकारः सम्पूर्णः । अथ पूर्वोक्तार्थमेवोपसंहरबाहएविदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मणुयस्स रागिणो। ते चेव थोवंपि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥१०० ॥
एवं पूर्वोक्तप्रकारेण रागिणो रागद्वेषसहितस्य मनुष्यस्येन्द्रियार्थाः, इन्द्रियाणां चक्षुरादीनामा विषया रूपादयश्च पुनर्मनसोऽर्थाः सङ्कल्पविकल्पा दुःखहेतवो भवन्तीत्यध्याहारः, ते एवेन्द्रियार्था मनसोऽर्थाश्च कदापि किञ्चित्स्तोकमपि दुःखं वीतरागस्य न कुर्वन्ति । यो हि जितेन्द्रियो भवति, स एव वीतराग उच्यते, स एवेन्द्रियार्थानां मनःसङ्कल्पानां च जेता स्यात्, यश्चेदृशो न भवेत्, स च सुखभाक् न स्यात् यथा जिनपालकः, अत्र जिनपालककथा ॥१०० ॥
न कामभोगा समयं उविति, न यावि भोगा विगई उविति । जे तप्पओसी य परिग्गहे अ, सो तेसु मोहा विगइं उवेइ ॥१०१॥
कामभोगाः शमतां नोपयान्ति, च पुनर्भोगा विकृतिमपि क्रोधादिरूपां विकारबुद्धिमपि नोपयान्ति । शमस्य क्रोधादेश्च भोगाः कारणं न भवन्तीति भावः । तर्हि को हेतुरित्याह-यस्तत्प्रद्वेषी तेषु कामभोगेषु प्रद्वेषो यस्य स तत्प्रद्वेषी, भोगेषु विरागी, च पुनः परिग्रही तेषु भोगेषु परिग्रही परिग्रहबुद्धिमान् भवति, सजीवो मोहादागद्वेषादिविकृतिमुपैति, यदा हि विषयेषु रागबुद्धि विधत्ते, तदा भोगासक्तो भवति, यदा च विषयेषु द्वेषबुद्धि विधत्ते, तदा विषये-विषयेभ्यो विरक्तो भवतीति । तस्मात्कामभोगाः शमतायाः क्रोधादिकषायाणां च कारणीभवितुं नार्हन्तीत्यर्थः ॥१०१॥