________________
३२, प्रमादस्थानाख्यमध्ययनम्]
[१८५ फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥८४॥
एवममुना प्रकारेण स्पर्शानुरक्तस्य पुरुषस्य कदापि किञ्चिदपि कुतः सुखं भवेत् ? अपि तु न भवेत् । तत्र स्पर्शोपभोगसमयेऽपि क्लेशदुःखं, यस्य स्पर्शस्य कृते उपभोगार्थमात्मनो दुःखं निवर्तयति ॥ ८४ ॥
एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ८५ ॥
एवमेव यथा स्पर्शे रागवान् दुःखौघपरम्परया प्रदुष्टचित्तः सन् कर्माष्टप्रकारं चिनोति, तथा स्पर्श प्रद्वेषं गतो दुःखौघपरम्परया प्रदुष्टचित्तः संस्तत्कर्म चिनोति, तत्कर्मोपार्जयति, यत्कर्म तस्य पुरुषस्य पुनर्विपाके दुःखदायि भवति ॥ ८५ ॥
फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्जे वसंतो, जलेण वा पोक्खरिणीपलासं ॥८६॥
स्पर्शे विरक्तो मनुष्यो विशोकः सन्नेतया दुःखौघपरम्परया भवमध्ये वसन्नपि न लिप्यते । केन किमिव ? जलेन पुष्करिणीपत्रमिव ॥ ८६ ॥ एताभिस्त्रयोदशगाथाभिःस्पर्शनेन्द्रियदोष उक्तः पञ्चमोऽधिकारः ।
मणस्स भावं गहणं वयंति, तं रागहेऊं समणुन्नमाहु । तं दोसहेऊं अमणुनमाहु, समो य जो तेसु स वीयरागो ॥८७॥
तीर्थङ्करा मनसश्चित्तस्य भावमभिप्रायं चिन्तनरूपं ग्रहणं ग्राह्यं वदन्ति, तमभिप्रायं समनोज्ञं मनोज्ञरूपादिविषयचिन्तनसहितं रागहेतुकमाहुः, अथवा स्वप्नकामादिषु भावोपस्थापितो रूपादिः, सोऽपि भाव उच्यते, तं भावं मनसो ग्राह्यं तीर्थङ्करा वदन्ति, स्वप्नादिषु हि केवलं मनस एव व्यापारोऽस्ति, तमेव भावममनोज्ञं द्वेषहेतुमाहुः, यो मनुष्यो मनोज्ञामनोज्ञेषु भावेषु समस्तुल्यवृत्तिः स वीतराग उच्यते ॥ ८७ ॥
भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति।
रागस्स हेऊं समणुन्नमाहु, दोसस्स हेऊ अमणुन्नमाहु ॥८८ ॥ - तीर्थङ्करा भावस्य शुभाशुभाशयस्य मनो ग्रहणं ग्राहकं वदन्ति, मनसश्चित्तस्य भावं शुभाशुभाभिप्रायं ग्राह्यं वदन्ति । इत्यनेन भावमनसोह्यग्राहकभावः सम्बन्ध उक्तः। तत्र तन्मनः समनोज्ञं प्रमोदयुक्तं रागहेतुकमाहुः, अमनोज्ञं कुत्सितभावसहितं द्वेषस्य हेतुकमाहुः ।।८८॥