________________
१८४]
[उत्तराध्ययनसूत्रे-भाग-२ यो मनुष्यो रुचिरे स्पर्शे एकान्तरक्तो भवति, सोऽतादृशेऽसुन्दरे स्पर्शे प्रद्वेषं करोति । स च बालोऽज्ञानी दुःखस्य सम्पीडामुपैति । तेन कारणेन विरागी मुनिन लिप्यते ॥७८ ॥
फासाणुगासाणुगए य जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्टे॥७९॥
स्पर्शानुगाशानुगतो जीवः-स्पर्शाभिलाषसहितो जीवो बालो - निर्विवेकी चित्रैरनेकरूपैरुपायैः शस्त्रैः कृत्वाऽनेकरूपांस्त्रसांस्थावरान् जीवान् हिनस्ति-पीडयति । कीदृशः सः ? आत्मार्थगुरुः-स्वार्थपरायणः, पुनः कीदृशः ? क्लिष्टो रागाद्युपहतचित्तः ॥ ७९ ॥
फासाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥८० ॥
स्पर्शानुरागेण, स्पर्शानुरागे जाते सति वा स्पर्शपरिग्रहेण स्पर्शानुरक्तस्य जीवस्य स्पर्शानामुत्पादने तथा स्पर्शानां रक्षणे, तथा स्पर्शानां संनियोगे स्वपरयोग्यप्रयोजनव्यापारणे, तथा पुनः स्पर्शानां व्यये न्यूनत्वे, तथा स्पर्शानां वियोगे विनाशे तस्य स्पर्शानुरक्तस्य कुतः सुखं स्यात् ? सर्वकालेऽसुखमेव स्यात् । च पुनः स्पर्शानां सम्भोगकालेऽप्यतृप्तिलाभ एव दुःखमेव भवति ॥८॥
फासे अतित्ते य परिग्गहंमि, सत्तोवसत्तो न उवेई तुढेिं । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१ ॥
स्पर्शेऽतृप्तः पुमान् परिग्रहे-मूर्छायां सक्तो भवति, सामान्येन सक्तो भवति । ततश्चोपसक्तोऽत्यन्तासक्तो भवति । ततश्च सक्तोपसक्तोऽतृप्तिदोषेण दुःखी सन् परस्यान्यस्य स्पर्शमदत्तमादत्ते - गृह्णाति । कीदृशः सः ? लोभाविलो लोभमलिनचित्तः ॥ ८१ ॥
तहाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ८२ ॥
तृष्णाभिभूतस्य मनुष्यस्य पुनरदत्तहारिणश्च पुनः स्पर्शे स्पर्शविषये परिग्रहेऽतृप्तस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृषायामपि दुःखादसन्तोषी न विमुच्यते ॥८२ ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥८३॥
मायामृषाभाषी पुमान् मृषावाक्यस्य पश्चात्पुरतश्च पुनः प्रयोगकाले-भाषणप्रस्तावे दुरन्तोऽत्यन्तं दुःखी भवति । एवममुना प्रकारेणाऽदत्तानि समाचरन् स्पर्शेऽतृप्तः सन् दुःखी भवति । परं कीदृशः सः ? अनिश्री निश्रारहितः ॥ ८३ ॥