________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[ १८३
रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वसंतो, जलेण वा पुक्खरिणीपलासं ॥ ७३ ॥
रसे विरक्तो मनुजो विशोकः सन् भवमध्ये वसन्नप्येतेन पूर्वोक्तदुःखौघपरम्परया न लिप्यते । केन कमिव ? जलेन पुष्करिणीपत्रमिव ॥ ७३ ॥ एवं त्रयोदशगाथाः । अथ स्पर्शनेन्द्रियमाश्रित्याह
कायस्स फासं गहणं वयंति, तं रागहेउं समणुन्नमाहु ।
तं दोसउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥ ७४ ॥
तीर्थङ्कराः कायस्य- स्पर्शनेन्द्रियस्य स्पर्शं शीतोष्णखरमृद्वादिकमष्टविधं विषयं ग्रहणं वदन्ति । तं स्पर्शविषयं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः, तमेवाऽमनोज्ञमसुन्दरं द्वेषहेतुमाहुः । तेषु मनोज्ञामनोज्ञेषु स्पर्शेषु यः समतुल्यपरिणामः स वीतराग उच्यते इति शेषः ॥ ७४ ॥
फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति ।
रागस्सहेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ ७५ ॥
तीर्थङ्कराः स्पर्शस्य शीतोष्णादेः पुद्गलस्य कायं-स्पर्शनेन्द्रियं ग्रहणं ग्राहकं वदन्ति, तथा कायस्य-स्पर्शनेन्द्रियस्य स्पर्शं शीतोष्णादिकं ग्रहणं ग्राह्यं वदन्ति । तत्स्पर्शनेन्द्रियं शरीरं समनोज्ञं मनोज्ञस्पर्शग्राहकं रागहेतुकमाहुः । तदेव स्पर्शनेन्द्रियममनोज्ञममनोज्ञस्पर्शग्राहकं द्वेषहेतुकमाहुः ॥ ७५ ॥
फासे जो गिद्धमुवे तिव्वं, अकालियं पावइ से विणासं । रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसेव रन्ने ॥ ७६ ॥
यो मनुष्यः स्पर्शेषु - स्पर्शनेन्द्रियविषयेषु तीव्रामुत्कटां गृद्धिमुपैति सोऽकालिकं विनाशं प्राप्नोति । स क इव ? रागेणातुरो रागातुरः, शीतजलेऽवसन्नस्तापोपशमनाय शीतलजले मग्नस्तत्र ग्राहगृहीतो महामकरेणोपात्तोऽरण्यमहिष इव नाशं प्राप्नोति ॥ ७६ ॥
जे यावि दोसं समुवेइ तिव्वं, तंसि खणे से उ उवेइ दुक्खं । दुर्द्दतदोसेण सएण जंतू, न किंचि फासं अवरज्झई से ॥ ७७ ॥
यश्चापि जन्तर्जीवो यस्मिन् क्षणे तीव्रं द्वेषं समुषैति । स च जन्तुः स्वकीयेन दुर्दान्तदोषेण स्पर्शनेन्द्रियदोषेण तस्मिन्नेव क्षणे दुःखमुपैति । परं स्पर्शः शुभाशुभस्पर्शनेन्द्रियविषयस्तस्य जीवस्य किमपि नापराध्यति, तस्य स्पर्शनेन्द्रियस्यैव दोषः ॥ ७७ ॥
एगंतरत्तो रूइरंमि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे ॥ ७८ ॥