________________
१८२]
[ उत्तराध्ययनसूत्रे - भाग - २
रसानुरक्तस्य जीवस्य रसानुरागेण अथवा रसानुरागे सति वा परिग्रहेण रसयुक्तद्रव्याणां मूर्च्छया, तथा रसयुक्तद्रव्याणामुत्पादने, तथा तेषां रक्षणे, तथा तेषां द्रव्याणां संनियोगेस्वपरेषां प्रयोजने रक्षणे, तथा व्यये - रसद्रव्याणां न्यूनत्वे, तथा वियोगे-विरहे तस्य रसानु - रक्तस्य कुतः सुखं भवति ? कस्मादपि कारणात्सुखं न भवति । सम्भोगकाले रसास्वादनrasaलाभोऽपि दुःखमसन्तुष्टिरेव दुःखमेव ॥ ६७ ॥
रसे अतित्ते य परिग्गहंमि, सत्तोवसत्तो न ऊवेइ तुट्ठि । अतुट्ठदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ६८ ॥
रसे तृप्तो जीवः परिग्रहे सक्तो भवति, ततश्च सक्तः सन्नुपसक्तो भवति, सक्तोपसक्तश्च तुष्टिं नोपैति अतुष्टिदोषेण दुःखी पुमान् परस्यादत्तं सरसं वस्तु गृह्णाति । कीदृशः सः ? लोभाविलो लोभकलुषः ॥ ६८ ॥
तहाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य ।
मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ तृष्णाभिभूतस्याऽदत्तहारिणः, रसे रसविषये परिग्रहेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृषायामपि सोऽसन्तोषी सरसवस्तुग्राही दुःखान्न विमुच्यते ॥ ६९ ॥
-
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते ।
एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥ ७० ॥
मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरन्तो दुःखी भवति । दुर्दुष्टोऽन्तो यस्य स दुरन्तः, एतादृशो दुःखी भवति । एवममुना प्रकारेण रसेऽतृप्तोऽदत्तानि समाचरंश्चौर्याणि कुर्वन् दुःखितो भवति । पुनरनिश्रो भवति, निश्रारहितो भवति ॥ ७० ॥
रसाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्ज कयावि किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥ ७१ ॥
एवममुना प्रकारेण रसानुरक्तस्य कदापि किञ्चित्कुतः सुखं भवति ? कुतोऽपि सुखं न भवतीत्यर्थः । तत्र रसोपभोगसमयेऽप्यतृप्तिलाभरूपं क्लेशदुःखं निर्वर्तयत्युत्पादयति । तस्य रसोपभोगस्य कृते आत्मनो दुःखं कष्टं जीव उत्पादयतीत्यर्थः ॥ ७१ ॥
एमेव रसंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तोय चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ७२ ॥
एवमेव रसे गृद्धो जीवः प्रद्वेषं गतः प्रदुष्टचित्तः सन् दुःखौघपरम्परया तत्कर्म चिनोति, येन कर्मणा पुनस्तस्य जीवस्य विपाके दुःखं भवति ॥ ७२ ॥