________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[१८१ रसस्स जीहं गहणं वयंति, जीहाए रसं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ ६२॥
रसस्य मधुरादेर्जिह्वा-जिहूवेन्द्रियं ग्रहणं ग्राहकं वदन्ति, तथा जिह्वाया रसनेन्द्रियस्य रसं मधुरादिकं ग्रहणं ग्राह्यं वदन्ति । रसरसनयोर्गाह्यग्राहकसम्बन्ध उक्तः । तदसनेन्द्रियं समनोज्ञं रागहेतुकमाहुः, अमनोज्ञं च द्वेषस्य हेतुकमाहुः ॥ ६२ ॥
रसेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसलोभगिद्धे ॥६३ ॥
यो मनुष्यो रसेषु मधुरादिषु तीव्रां गृद्धिमुपैति, स रागातुरोऽकालिकं विनाशं प्राप्नोति । क इव ? मत्स्य इव, यथा मत्स्य आमिषलोभगृद्धो बडिशविभिन्नकायो-लोहकण्टकविद्धशरीरोऽकालिकं विनाशं प्राप्नोति । तथा रसगृद्धो जीवोऽपि ॥६३ ॥
जे आवि दोसं समुवेइ तिव्वं, तंसिं खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, रसं न किंचि अवरज्झइ से ॥६४ ॥
यश्चापि जन्तुर्यस्मिन् क्षणे तीव्र द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दान्तदोषेण दुर्दान्तरसनेन्द्रियदोषेण दुःखमुपैति-प्राप्नोति । परन्तु तस्य मनुष्यस्य रसः किमपि नापराध्यति । तस्य रसनेन्द्रियस्यैव दोषः, न तु रसस्य कश्चिद्दोषोऽस्तीति भावः ॥६४॥
एगंतरत्तो रुइरे रसंमि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पड़ तेण मुणी विरागे ॥६५॥
यो रुचिरे - मनोज्ञे मधुरादौ रसे एकान्तरक्तोऽत्यन्तमासक्तो भवति, स बालोऽज्ञानी जीवोऽतादृशेऽमनोज्ञे रसे द्वेषं करोति, ततश्च स दुःखसम्पीडां स्वस्य दुःखसम्बन्धिनी पीडामुपैति-प्राप्नोति, तेन कारणेन विरागी न लिप्यते आसक्तो न भवति ॥६५॥
रसागुणासाणुगए य जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ॥६६ ॥
बालोऽज्ञानी जीवो रसानुगाशानुगतो मधुरादिरसास्वादाभिलाषसहितश्चित्रविविधैः शस्त्राद्युपायैः कृत्वाऽनेकरूपांश्चराचरान्जीवान् हिनस्ति, परितापयति, पीडयति।कीदृशः स बालः? अत्तट्ठगुरू' आत्मार्थपरायणः, पुनः कीदृशो बालः? क्लिष्टो रागाद्युपहतचित्तः ॥६६॥
रसाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए वियोगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभे ॥६७॥