________________
१८० ]
[ उत्तराध्ययनसूत्रे - भाग - २
मृषाभाषी पुरुषो मृषावाक्यस्य पश्चाच्च पुनः पुरस्तात्पूर्वं च पुनः प्रयोगकाले दुरन्तो दुःखी भवति । मृषाभाषणस्य पश्चादेवं जानाति, मया किमर्थं मृषावाक्यमुक्तं ? मृषाभाषणस्य पूर्वमेवं जानात्यसौ मम मृषावाक्यं ज्ञास्यति । मृषाभाषणकाले चैवं जानाति अस्याग्रे ऽहं मृषा वदामि, परमसौ जानातीति चिन्ताकुलत्वेन सर्वदा दुरन्तो दु:खीअत्यन्तदुःखी स्यात् । एवम- दत्तानि समाचरन् गन्धेऽतृप्तो जीवो दुःखितो भवति । कीदृशः सः ? अनिश्रो निश्रारहितः ॥५७॥
'
गंधाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्जा क्यावि किंचि । तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥ ५८ ॥
एवममुना प्रकारेण गन्धानुरक्तस्य नरस्य कदापि किञ्चित्कुतः सुखं भवेत् ? तत्रापि गन्धोपभोगेऽपि क्लेश एव दुःखं निर्वर्त्तयति, क्लेशदुःखमुत्पादयति । यस्य कृते गन्धस्योपभोगार्थं दुःखमात्मन: कष्टं भवति ॥ ५८ ॥
एमेव गंधंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ५९ ॥
एवमेव यथा गन्धानुरक्तो नरो दुःखौघपरम्परां प्राप्नोति, तथैव गन्धे दुष्टगन्धे प्रद्वेषं गतो दुःखौघपरम्परामुपैति । प्रदुष्टचित्तः सन् दुष्टं कर्म चिनोति, यत्कर्म तस्य पुरुषस्य विपाके-विपाककाले दुःखं दुःखकारि भवति ॥ ५९ ॥
गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झे 'वसंतो, जलेण वा पुक्खरिणीपलासे ॥ ६० ॥
गन्धे विरक्तो - गन्धाद्विरागी मनुजो विशोकः - शोकरहितः सन्नेतेन दुःखौघपरम्परया न लिप्यते न स्पृश्यते । किं कुर्वन्नपि ? भवमध्ये वसन्नपि, किमिव ? जलेन पुष्करिणीपत्रपद्मिनीपत्रमिव ॥ ६० ॥
अथ रसनेन्द्रियमाश्रित्य दूषणमाह
जीहाए रसं गहणं वयंति, तं रागहेउं समणुन्नमाहु |
तं दोसउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥ ६१ ॥
रस्यते आस्वाद्यते इति रसो मधुरादिः, तं रसं तीर्थङ्करा जिह्वाया रसं मधुरादिकं विषयं ग्रहणं वदन्ति । तं रसं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः, तमेव रसं कटुकादिकममनोज्ञममनोहरं द्वेषहेतुमाहुः । यश्चैतेषु मनोज्ञामनोज्ञेषु रसेषु समस्तुल्यवृत्तिः स वीतराग उच्यते इति शेषः ॥ ६१॥
१ व संतो अन्यसंस्करणे ॥