________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
गंगासागर य जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरु किलिट्टे ॥ ५३ ॥
[ १७९
बालोऽज्ञानी जीवो गन्धानुगाशानुगतो मनोज्ञगन्धोपेतपुष्पकर्पूरकस्तूरिकादिदव्यसुरभिग्रहणाशासहितश्चित्रैर्विविधशस्त्राद्युपायैः कृत्वा चराचराननेकरूपान् जीवान् हिनस्ति, परितापयति, पीडयति । कीदृशः सः ? आत्मार्थगुरुः स्वार्थपरायणः, पुनः कीदृश: ? सङ्क्लिष्टो रागाद्युपहतचित्तः ॥ ५३ ॥
गन्धानुरक्तस्य जीवस्य कुतः सुखं भवति ? कुतोऽपि सुखं न स्यादित्यर्थः । तथैव
दर्शयति
गंधाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे ।
विओगे कहिं सुहं से, संभोगकाले य अत्तित्तिलाभो ॥ ५४ ॥
पूर्वं तु गन्धानुवादेन सुरभिगन्धद्रव्यानुरागेण, सुरभिगन्धदव्यानुरागे सति वा परिग्रहेण मूर्च्छारूपेण दुःखं स्यात्, ततस्तस्योत्पादने दुःखं स्यात्, ततो रक्षणे दुःखं, ततः संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे दुःखं, ततो व्यये तस्य न्यूनतायां दुःखं, ततो वियोगे - विनाशे दुःखं भवति । एवं कष्टेन सम्प्राप्ते सुगन्धवस्तुनि सम्भोगकालेऽप्यतृप्तिलाभ:, स च दुःखं, एवमसन्तोषी महादुःखीत्युक्तत्वात् । तस्मादेतादृशस्य गन्धानुरक्तस्य कुतः सुखं स्यात् ? अपि तु न स्यादेव ॥ ५४॥
गंधे अतित्तो य परिग्गहंमि, सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ५५ ॥
गन्धेऽतृप्तोऽसन्तुष्टः पुमान् परिग्रहे सक्तो भवति, सामान्येन रतिमान् भवति । ततः पश्चात्सक्तः सन्नुपसक्तोऽत्यन्तं रतिमान् भवति । तदा च सक्तोपसक्त उच्यते । तादृशः सक्तोपसक्तश्च तुष्टिं सन्तोषं नोपैति । स चातुष्टिदोषेण दुःखी सन्नन्यस्याऽदत्तं द्रव्यमादत्ते । कीदृशः सः ? लोभाविलो लोभेन कलुषः ॥ ५५ ॥
तहाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे य । मायामुखं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ५६ ॥
तृष्णाभिभूतस्य सुगन्धदव्यलोभेन पराभूतस्य ततोऽदत्तहारिणो गन्धे गन्धविषयेतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा संवर्धते । तत्रापि मायामृषायामपि स मृषावादी वो दुःखान्न विमुच्यते ॥ ५६ ॥
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते ।
एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥ ५७ ॥