________________
१७८]
[ उत्तराध्ययनसूत्रे-भाग-२ अथ घ्राणेन्द्रियमाश्रित्याहघाणस्स गंधं गहणं वयंति, तं रागहेउं समणुन्नमाहु । तं दोसहेडं अमणुन्नमाहु, समो य जो तेसु स वीयरामो ॥४८॥
तीर्थङ्करा घ्राणस्य - नासिकाया ग्रहणं - विषयं गन्धं वदन्ति । तं मनोज्ञं गन्धं रागहेतुमाहुः । पुनस्तं गन्धममनोज्ञं द्वेषहेतुमाहुः । तेषु मनोज्ञामनोज्ञेषु गन्धेषु यः समस्तुल्यवृत्तिः स वीतरागो ज्ञेयः ॥ ४८ ॥
गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमगुन्नमाहु ॥ ४९ ॥
तीर्थङ्करा गन्धस्य सुरभ्यसुरभिपुद्गलस्य ग्रहणं ग्राहकं घ्राणं वदन्ति तथा घ्राणस्यनासिकाया गन्धं सुरभ्यसुरभिपुद्गलं ग्रहणं ग्राह्यं वदन्ति । एवं गन्धघ्राणयोर्गाह्यग्राहकभाव उक्तः । तन्मनोज्ञं मनोज्ञगन्धविषयसहितं घ्राणं रागहेतुमाहुः, एवममनोज्ञगन्धविषयसहितं घ्राणं द्वेषस्य हेतुमाहुः ॥४९॥
गंधेसु जो तिव्वमुवेइ गिद्धि, अकालियं पावई से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंतो॥५०॥
यो मनुष्यो गन्धेषु तीव्रामुत्कटां गृद्धिमुपैति, स मनुष्यो रागातुरः सन्नकालिकं विनाशं प्राप्नोति । स क इव ? बिलान्निष्क्रमन् सर्प इव, यथा बिलान्निस्सरन् सर्प औषधिगन्धगृद्धोऽकालिकं विनाशं प्राप्नोति । सर्पो हि नागदमन्यादिकां सुरभिगन्धोपेतां काञ्चिदौषधीमाघ्राय पश्चात्तद्गन्धाकृष्टो बिलानिर्गच्छन् प्रियते, जनैर्मार्यते । चन्दनगन्धाकर्षितश्च चन्दनमालिङ्ग्य तिष्ठन् म्रियते मार्यते । गन्धलुब्धो नरो हि सर्पोपमो ज्ञेयः ॥५०॥
जे आवि दोसं समुवेइ तिव्वं, तंसि खणे से उ उवेइ दुक्खं। दुदंतदोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ॥५१॥
यश्चापि जन्तुर्यस्मिन् क्षणेऽमनोज्ञगन्धमाघ्राय तीव्र द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दान्तघ्राणेन्द्रियदोषेण दुःखमुपैति, परन्तु तस्य गन्धग्राहकस्य पुरुषस्य गन्धः किमपि नापराध्यति, गन्धस्य न कश्चिद्दोषः, तस्य घ्राणेन्द्रियस्यैव दोषोऽस्ति ॥५१॥
एगंतरत्तो रुइमि गंधे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे ॥५२॥
यो मनुष्यो रुचिरे-मनोज्ञे गन्धे एकान्तरक्तोऽत्यन्तं रागवान् भवति, सोऽतादृशेऽमनोज्ञे गन्थे प्रद्वेषं करोति, तदा स बालो दुःखस्य पीडां-दुःखसम्बन्धिनी पीडामसातामुपैति । तेन कारणेन विरागी मुनिस्तेन दुःखेन-रागद्वेषोद्भवेन कष्टेन न लिप्यते ॥५२॥