________________
[ १७७
३२, प्रमादस्थानाख्यमध्ययनम् ]
तदेव दुःखं दर्शयति
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंते, सद्दे अतित्तो दुहिओ अणिस्सो ॥ ४४ ॥
मृषाभाषी पुमान् मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरन्तो दुःखान्तो भवति, अन्ते दुःखभाक् स्यात् । मायया मृषामुक्त्वा, पश्चान्मृषाभाषणस्य पश्चात्तापं करोति, मनस्येवं जानाति, मया सुसंस्थापितं वाक्यं नोक्तमिति पश्चात्तापं करोति । पुनः शब्दलोभी मृषाभाषणस्य पुरस्ताच्च कथं मयासौ शोभनशब्दगुणवान् पदार्थो ग्राह्यो वञ्चना वा कार्ये मृषाभाषणात्पूर्वमपि चिन्तादुःखोपेतः स्यात् । पुनः स च प्रयोगकाले मृषाभाषणप्रस्तावे च दुःखी स्यात्, यतो हि मृषां जल्पन्तं मामसौ मा जानात्यप्येवममुना प्रकारेण शब्दे ऽतृप्तो जीवोऽदत्तानि शब्दगुणवद्वस्तूनि समाचरन् गृह्णन् दुःखितो भवति । त्रिकालमपि दुःखभाग्भवति । कीदृशः सः ? अनिश्रो निश्रारहितः, यतो ह्यदत्तग्राहिणोऽन्याययुक्तस्य न astraष्टम्भदाता स्यात् ॥ ४४ ॥
1
सद्दाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्ज कया य किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥ ४५ ॥
शब्दानुरक्तस्य मनुष्यस्यैवमनेनोक्तप्रकारेण कदापि किञ्चित्स्तोकमपि सुखं भवति ? अपि तु सर्वथैव न सुखम् । यतस्तत्र शब्दानुरागे उपभोगेऽपि क्लेशदुःखं, अतृप्तिलाभलक्षणपीडाजनितमसातं निर्वर्त्तयत्युत्पादयति । पुनः 'जस्स कएण' इति यस्य मनोज्ञशब्दोपभोगस्य कृते - शब्दोपभोगार्थं दुःखमात्मनः कष्टं निर्वर्त्तयत्युत्पादयति, तस्य कदापि सुखं नास्तीत्यर्थः, सुखस्य कारणं तत्र किमपि नास्ति ॥ ४५ ॥
एमेव सद्दंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ ।
पट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ४६ ॥
2
एवमनेन प्रकारेणैव यथा मनोज्ञशब्दोपरि रागमुपगतस्तथाऽमनोज्ञशब्दे प्रद्वेषं गतो जीवो दुःखौघपरम्परामुपैति । ततः प्रदुष्टचित्तो-द्वेषोपहतचित्तः कर्माष्टविधं चिनोति, कर्मबन्धं करोति । यत्कर्म तस्य प्रदुष्टचित्तस्य पुरुषस्य विपाके दुःखं दुःखदायि भवति ॥ ४६ ॥
-
-
सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । नलिप्पड़ भवमज्झे वसंतो, जलेण वा पोक्खरिणीपलासं ॥ ४७ ॥
यो मनुष्यः शब्दे विरक्तो भवति, स विशोकः - शोकरहितः सन् भवमध्ये वसन्नप्येतया पूर्वोक्तदुःखौघपरम्परया न लिप्यते । किमिव ? जले वसदपि पुष्करिणीपत्रमिव ॥ ४७ ॥