________________
१७६]
[ उत्तराध्ययनसूत्रे-भाग-२ यो मनुष्यो रुचिरे-मनोज्ञे शब्दे एकान्तरक्तोऽत्यन्तमासक्तो भवति, रागं कुरुते, स मनुष्योऽतादृशेऽमनोज्ञे शब्दे प्रद्वेषं करोति । स बालो रागद्वेषासक्तो दुःखस्य सम्पीडामुपैति, असातासम्बन्धिनीमत्यन्तपीडां प्राप्नोति, तेन रागद्वेषोत्पन्नदुःखेन विरागी मुनिर्न लिप्यते, वीतरागः पुमान् सदा सुखभाक् स्यादिति भावः ॥ ३९ ॥
अथ शब्दानुरक्तस्य रागद्वेषयोरेवाश्रवकारणत्वमाह-.... -~सद्दाणुगासाणुगए य जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिटे ॥४०॥
जीवः शब्दानुगाशानुगतः सन्, मनोज्ञशब्दश्रवणाशायुक्तः सन्, चराचराननेकरूपान् जीवान् हिनस्ति । स बालोऽज्ञानी चित्रैरनेकप्रकारैरुपायैः शस्त्रादिभिः कांश्चिज्जीवान् परितापयति, कांश्चिज्जीवान् पीडयति । कीदृशः स बालः ? 'अत्तट्ठगुरु' आत्मार्थगुरुः स्वार्थपरायणः, पुनः कीदृशः ? 'किलिट्टे' क्लिष्टो रागद्वेषोपहतचित्तः ॥ ४० ॥
मनोज्ञशब्दश्रवणलोभाभिभूतस्य प्राणिनः कुतः सुखं ? तदेवाहसद्दाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनियोगे । वए वियोगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभो ॥४१॥
शब्दानुरागेण तथा परिग्रहेण मूर्छारूपेणोत्पादने मनोहरशब्दोपेतचेतनाचेतनद्रव्योत्पादने, पश्चात्तेषां रक्षणे, पश्चात्तेषां संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे, व्यये-विनाशे, वियोगेऽर्थाच्छब्दार्थिनः पुरुषस्य कुतः सुखं ? पुनस्तस्य शब्दानुरागिणो जन्तोः सम्भोगकाले चातृप्तिलाभो दुःखं भवति, शब्दश्रवणे रागिणां न तृप्तिरिति भावः ॥४१॥
सद्दे अतित्ते य परिग्गहंमि, सत्तोवसत्तो न उवेइ तुर्द्वि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ४२ ॥
शब्देऽतृप्तो जीवः परिग्रहे सक्तः स्यात्, सामान्येन रक्तो भवेत्, उपसक्तश्च गाढमासक्तः स्यात् । ततश्च सक्तोपसक्तः स्यात् । अत्यन्तं सक्त उपसक्तः, सक्तश्चासावुपसक्तश्च सक्तोपसक्तः, परिग्रहे गाढानुरक्तस्तुष्टि-सन्तोषं नोपैति, अतुष्टिदोषेण दुःखी भवति । पुनरसन्तोषी परस्यान्यस्य सम्बन्धि शोभनशब्दकारिवस्तुवादित्रादिलोभाविलो लोभकलुषोऽदत्तमादत्ते, अदत्तं गृह्णाति ॥ ४२ ॥ तएहाभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से ॥ ४३ ॥
शब्देऽतृप्तस्य प्राणिनः परिग्रहे तृष्णाभिभूतस्याऽदत्तहारिणश्च लोभदोषान्मायामृषा संवर्धते । पुनस्तस्य प्राणिनस्तत्रापि - मायामृषायामपि दुःखान्न विमुच्यते, मायामृषाजल्पनकालेऽपि दुःखभाक् स्यादित्यर्थः ॥ ४३ ॥