________________
३२, प्रमादस्थानाख्यमध्ययनम्]
[१७५ अथ श्रोत्रमाश्रित्य दूषणान्याहसोयस्स सदं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥ ३५ ॥
तीर्थङ्कराः श्रोत्रेन्द्रियस्य ग्रहणं विषयं शब्दं वदन्ति ।शब्दग्राहकं श्रोत्रमिति श्रोत्रेन्द्रियस्य लक्षणम् । शब्दः श्रोत्रेणैव गृह्यते, तं शब्दं मनोज्ञं स्त्रीगीतादिकं रागहेतुकमाहुः, वीतरागाः कथयन्ति । तमेव शब्दममनोज्ञं खरवायसादिप्रोक्तं कर्कशं द्वेषहेतुकमाहुः । यस्तु मनोज्ञामनोज्ञयोः शब्दयोर्विषये समो रागद्वेषरहितः स वीतराग उच्यते ॥ ३५ ॥
सद्दस्स सोयं गहणं वयंति, सोयस्स सदं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ ३६ ॥
तीर्थङ्कराः 'सोय' इति श्रोत्रेन्द्रियं शब्दस्य ग्रहणं ग्राहकं वदन्ति । गृह्णातीति ग्रहणम् । पुनस्तीर्थङ्कराः शब्दं विषयं श्रोत्रस्य श्रोत्रेन्द्रियस्य ग्रहणं, गृह्यते इति ग्रहणं ग्राह्यं वदन्ति । शब्दः श्रोत्रेण ग्राह्यः, तस्माच्छब्दश्रोत्रयोाह्यग्राहकभावसम्बन्ध उक्तः । तत्समनोज्ञं सुन्दरशब्दविषयग्राहकं रागस्य हेतुकमाहुः । पुनरमनोज्ञमसुन्दरं शब्दविषयग्राहकं श्रोत्रेन्द्रियं द्वेषस्य हेतुमाहुः ॥ ३६ ॥
सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालियंपावइ से विणासं । रागाउरे हरिणमिगेव मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥३७॥
यः पुरुषः शब्देषु तीव्रामधिकां गृद्धि-मूर्छामुपैति, सशब्देऽतृप्तो मनोज्ञशब्दे सन्तुष्टो रागातुरः सन् मुग्धो मूढोऽकालिकमायुःस्थितेरांगेव सोपक्रमायुष्कत्वान्मृत्योरवसरं विनैव विनाशं मरणं प्राप्नोति । स मूढः क इव मृत्युं समुपैति ? शब्देऽतृप्तो मुग्धो हरिण इव मृग इव हरिणपशुरिव, अत्र मृमशब्दः पशुपर्यायवाचकः, हरिणश्चासौ मृगश्च हरिणमृगः ॥३७॥
जे आविदोसं समुवेइ तिव्वं, तंसिक्खणे से उउवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि सदं अवरज्झइ से ॥३८॥
यश्चापि जन्तु वो यस्मिन् क्षणेऽमनोज्ञे शब्दे तीव्र द्वेषं समुपैति, स जन्तुस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दान्तदोषेण, दुर्दान्तं श्रोतेन्द्रियं, तदेव दोषोऽथवा तस्य दोषस्तेन दुःखमुपैति-प्राप्नोति,सजन्तुः स्वकीयश्रोत्रेन्द्रियदोषेण दुःखीक्रियते । परन्तु तस्य पुरुषस्य शब्दः किञ्चिदपि नापराध्यति, शब्दस्य न कोऽपि दोषः, जन्तोः श्रोत्रेन्द्रियस्यैव दोष इत्यर्थः॥३८॥
एगंतरत्तो रुइरंमि सद्दे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे ॥ ३९ ॥