________________
१७४]
[उत्तराध्ययनसूत्रे-भाग-२ पर्यवसानं यस्य स दुरन्तः । इह लोके विटम्बनातः, परभवे च दुर्गतिदुःखाद् दुष्टावसान इत्यर्थः । एवममुना प्रकारेण रूपेऽतृप्तोऽदत्तानि समाचरन्ननिश्रः सन् दुःखितो भवति, न विद्यते निश्रा यस्य सोऽनिश्रोऽवष्टम्भरहितः । यतो हि चौरस्य मृषाभाषिणश्च न कोऽपि रक्षक इति भावः ॥३१॥
रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुज्ज कयाइ किंचि। तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥३२॥
एवममुना प्रकारेण प्रागुक्तसूत्रप्रकारेण रूपानुरक्तस्य-रूपानुरागिणः पुरुषस्य कदापि रात्रौ दिवसे वा किञ्चित्स्तोकमात्रमपि कुतः कस्मात्सुखं भवेत् ? अपि तु कदापि किमपि सुखं न भवेत् । यतस्तत्र रूपानुरागे उपभोगेऽपि क्लेशदुःखमतृप्तिलाभत्वलक्षणपीडाजनितमसातं निवर्तयत्युत्पादयति । पुनः 'जस्स कएण', इति यस्य मनोज्ञरूपाद्युपभोगस्य कृते, मनोज्ञरूपाद्युपभोगार्थं दुःखमात्मनः कष्टं भवति ॥ ३२॥
इति रागस्य दुःखहेतुत्वमुक्त्वा द्वेषस्य दुःखहेतुत्वमाहएमेव रूवंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥
एवममुना प्रकारेणैव यथा मनोज्ञरूपोपरि रागाद्दुःखं लाभप्रकारेणैव, तथा जीवोऽमनोज्ञे रूपे प्रद्वेषं गतः सन्-प्रद्वेषपरम्परातः प्रदुष्टचित्तः संस्तत्कष्टकर्म चिनोत्युपार्जयति । 'जं' इति यत्कर्म 'से' इति तस्य दुष्टचित्तस्य विपाके-कर्मानुभवकाले, इह परत्र च दुःखं दुखदायि भवति ॥ ३३ ॥
रागद्वेषोद्धरणगुणमाहरूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वसंतो, जलेण वा पुक्खरिणीपलासं ॥३४॥
रूपे विरक्तो मनुष्यो मनोज्ञरूपे रागमकुर्वन्नेतया दुःखौघपरम्परया पूर्वोक्तया दुःखसमूहश्रेण्या भवमध्ये वसन्नपि न लिप्यते, रागजनितदुःखावलिप्तो न स्यादित्यर्थः । कीदृशः स पुमान् ? विशोको विगतशोकः, केन किमिव ? जलेन पुष्करिणीपलाशमिव, यथा पद्मिनीपत्रं जले तिष्ठदपि जलेन नावलिप्यते, एवं विरक्तोऽपि संसारे वसन्नपि संसारदुःखैन लिप्यते ॥३४॥
एवं चक्षुरिन्द्रियमाश्रित्य त्रयोदश गाथा व्याख्याताः, अथ शेषेन्द्रियाणां मनसश्च त्रयोदशत्रयोदश गाथा व्याख्येयाः सन्ति । अत्र चेन्द्रियाणां चक्षुषो दोषबाहुल्यप्रादुर्भावात्पूर्वं चक्षुरिन्द्रियद्वारेण रागद्वेषौ दर्शितौ, अन्यथा तु दुर्दमनं रसनेन्द्रियमुक्तमस्ति ।