________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[१७३ सुखम्, पूर्वं हि लोभी जीवो रूपानुरागी सन् मूर्छया रूपवद्गजतुरगकलत्रादीनामुत्पादने दुःखं प्राप्नोति, ततस्तेषामुत्पन्नानां कष्टेभ्यो रक्षणे दुःखं प्राप्नोति । ततश्च संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे दुःखं प्राप्नोति । तेषां रूपवद्गजादीनां सम्भोगकालेऽपि प्राप्तावतृप्तिलाभेऽपि सन्तोषस्याऽभावे सति दुःखं प्राप्नोति । यदुक्तम्-"न जातकामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्धते ।। १ ।।"
तस्मात्परिग्रहेण जीवस्य कुतः सुखं ? कदापि सुखं नास्तीति भावः ॥ २८ ॥ रूवे अतित्ते य परिग्गहमि, सत्तोवसत्तो न उवेइ तुढेिं । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥
रूपेऽतृप्तश्च पुरुषः परिग्रहे-मूर्छायां सक्तो-प्रसक्तो भवति, सामान्येनासक्तिमान् सक्तः, उपसक्तश्च गाढमासक्तः स्यात् । ततश्च मूर्छायां सक्तोपसक्तः, पूर्व सक्तः, पश्चादुपसक्तः सक्तोपसक्तः । एतादृशः सन्मनुष्यस्तुष्टिं-सन्तोषं नोपैति । ततश्चातुष्टिदोषेणाऽसन्तोषदोषेण दुःखी सन् परस्यान्यस्याऽदत्तं सुरूपवस्त्विति शेषः, आदत्ते-गृह्णाति । कीदृशः स रूपेऽतृप्तः । लोभाविलो लोभेनाविल:-कलुषो लोभाविलः ॥ २९ ।। .. पुनर्दोषान्तरमाहतण्हाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहस्स । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से ॥३०॥
तृष्णाभिभूतस्य-लोभपराजितस्य जीवस्याऽदत्तहारिणोऽदत्तग्राहकस्य, तथा रूपेरूपविषये परिग्रहेऽतप्तस्याऽसन्तष्तस्य लोभदोषालोभापराधान्मायामषा वर्धते. तष्णायाऽदत्तं गृह्णाति, ततो लोभात्परस्य गृहीतवस्तुरक्षणपरो मायामृषां वक्ति, तत्रापि मृषाभाषणेऽपि दुःखान्न विमुच्यते । स लोभी दुःखस्य भागेव स्यादित्यर्थः ॥३०॥
दुःखयुक्तत्वमेव प्रकटयतिमोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥
'मोसस्स' मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च कालत्रयेऽपि सुरूपवस्तुलोभाददत्तग्राहकः पुमान् दुःखी भवतीति शेषः । सुरूपवस्तुलोभाददत्तग्राहकः पुमानित्यपि कर्तृपदं प्रस्तावाद् गृह्यते । कोऽर्थः ? पूर्वं हि लोभान्मृषाभाषणं कुरुते, मृषाभाषणस्य पश्चान्मृषावचनमुक्त्वा पश्चात्पश्चात्तापं कुरुते, मनसि जानाति मया मृषोक्तं, मा ज्ञास्यत्यसौ वस्तुस्वामीति । तथा पुरतश्च मृषाभाषणात्पूर्वमपि दुःखी भवति, मयासौ सुरूपवस्तुस्वामी केन प्रकारेण वञ्चनीय इति । पुनः प्रयोगकाले मृषाजल्पनकालेऽपि दुःखी भवति, मनस्येवं जानाति, मा कदाचिन्मम मृषावचनमसौ जानात्यपि । कीदृशः स पुरुषः ? दुरन्तो दुष्टोऽन्तः