________________
१८६]
[ उत्तराध्ययनसूत्रे-भाग-२ भावेस जो गिद्धिमवेड तिव्वं, अकालियं पावइ से विणासं । रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥८९ ॥
यो मनुजो भावेषु विषयाभिलाषेषु तीव्रां गृद्धिमुपैति, स मनुजोऽकालिकं विनाशं प्राप्नोति । स पुना रागातुरः कामगुणेषु गृद्धः सन् करेणुमार्गापहृतो नाग इव, हस्तिन्या स्वमार्गे आनीतो गज इव परवशो भूत्वाऽकालिकं विनाशं प्राप्नोति । यदा हि मदोन्मत्तो हस्ती दूरात्करेणुकां हस्तिनीं दृष्ट्वा तद्रूपमोहितस्तस्या मार्गे पतितो जनैर्गृहीत्वा सङ्ग्रामादौ प्रावेश्य विनाश्यते, तथा भावातुरोऽप्यकाले म्रियते इत्यर्थः ॥८९॥
(ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिस्तत्कथमस्यात्र भावविषये दृष्टान्तत्वेनाभिधानं ? उच्यते-एवमेतन्मनःप्राधान्यविवक्षया तज्ज्ञेयम् ।अथवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेऽपि मनसः प्रवृत्तिरिति न दोषः । इह च कामस्य मनस एवोत्पादादिति भावः)
जे यावि दोसं समुवेइ तिव्वं, तंसिं खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ॥९० ॥
यश्चापि मनुष्यो यस्मिन् क्षणे शुभाशुभभावे तीव्र द्वेषं समुपैति, स मनुष्यः स्वकीयेन दुर्दान्तदोषेण-दुष्टमनोलक्षणदोषेण तस्मिन्नेव क्षणे दुःखमुपैति, परन्तु तस्य मनुष्यस्य भावः शुभाशुभव्यापारः किमपि नापराध्यति, भावस्य न कोऽपि दोषः, किन्तु तस्य पुरुषस्य मनस एव दोष इत्यर्थः ॥९० ॥
एगंतरत्तो रुइरंमि भावे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागे ॥९१ ॥
यो मनुष्योरुचिरे-मनोज्ञे भावे ऋद्धिरससातागौरवादावेकान्तरक्तो भवति, समनुष्यः 'अतालिसे' अतादृशेऽमनोज्ञे भावे प्रद्वेषं करोति, स च बालोऽज्ञानी दुःखस्य सम्पीडामुपैति, तेन कारणेन विरागी मुनी रागद्वेषाभ्यां न लिप्यते ॥ ९१ ॥
भावाणुगासाणुगए य जीवे, चराचरे हिंसइऽणेगरूवे ।। चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ठगुरू किलिटे ॥ ९२ ॥
जीवो भावानुगाशानुगतःशुभाशुभविषयाभिलाषसहितश्चित्रैरनेकप्रकारैः सङ्कल्पनैरनेनौषधेनामुं वशीकरणं करोमि, अनेनौषधेन स्वर्णसिद्धि करोमि, अनेनौषधेन पुत्रो भवति, इत्यादिचिन्तनैर्बालोऽविवेकी चराचराननेकरूपान् जीवान् हिनस्ति, परितापयति तथा पीडयति । परं कीदृशः सः ? 'अत्तट्ठगुरु' स्वार्थपरायणः, पुनः कीदृशः ? क्लिष्टो रागाद्युपहतचित्तः ॥ ९२ ॥