________________
१७०]
[ उत्तराध्ययनसूत्रे-भाग-२ समुद्रमुल्लङ्घ्य गङ्गानद्यपि सुखोत्तरा सुखोल्लध्यैव, तथा येन स्त्रीसङ्गस्त्यक्तस्तस्यान्यसङ्गो धनधान्यादिसंयोगः सुत्यज एव ॥१८॥
अथ रागस्य दुःखहेतुत्वमाहकामाणुगिद्धिप्पभवं खुदुक्खं, सव्वस्स लोयस्स सदेवगस्स। जंकाइयं माणसियं च किंचि, तस्संतगं गच्छई वीयरागो ॥१९॥
वीतरागः पुमान् रागद्वेषरहितो मनुष्यस्तस्य द्विविधस्यापि दुःखस्यान्तकं-पर्यन्तं गच्छति-प्राप्नोति । तद् द्विविधं दुःखं कीदृशं ? कायिकं, काये भवं कायिकं रोगादि, तथा मानसिकं, मनसि भवं मानसिकं इष्टवियोगाऽनिष्टसंयोगादि । पुनर्यदुःखं सर्वस्य लोकस्य प्राणिगणस्य 'खु'इति निश्चयेन कामानुगृद्धिप्रभवं विषयसततसेवनोद्भूतं वर्तते । काम्यन्तेऽभिलष्यन्ते जनैरिति कामा-विषयास्तेष्वनुगृद्धिः कामानुगृद्धिः, सतताभिकाङ्क्षा कामानुगृद्धिः, ततः प्रभवो यस्य तत्कामानुगृद्धिप्रभवम् । कीदृशस्य लोकस्य ? सदेवकस्य देवैः सहितस्य । वीतरागो विगतकामानुगृद्धिरिहोच्यते ॥ १९ ॥
अथ कामा एव दुःखहेतव इति वदतिजहा य किंपागफला मणोरमा, रसेण वनेण य भुज्जमाणा। ते खुद्दए जीविये पच्चमाणे, एओवमा कामगुणा विवागे ॥२०॥
यथा च किम्पाकफलानि - विषवृक्षविशेषस्य फलानि रसेन मधुरत्वेन, वर्णेन रक्तादिना, चकाराद् गन्धेन भुज्यमानानि जनस्य मनोहराणि भवन्ति, तानि किम्पाकफलानि क्षुद्रके जीविते-तुच्छे सोपक्रमे मनुष्यायुषि पच्यमानान्युदरान्तरे गत्वा विपाकावस्थां प्राप्तानि मरणान्तदुःखानि भवन्तीत्यध्याहारः । तथा विपाके-परिपाककाले कामगुणा-विषया एतदुपमाः, एतेषां किम्पाकफलानामुपमा येषां ते एतदुपमाः, किम्पाकफलसदृशा विषया इत्यर्थः । विषया हि भोगसमये मनोरमाः, विपाके परलोके नरकादिदुःखदायिनः ॥२०॥
रागस्यैव द्वेषसहितस्योद्धरणोपायमाहजे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाइ । न याऽमणुन्नेसु मणंपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१ ॥ ___ समाधिकामः, समाधि-रागद्वेषाऽभावेन चित्तस्य स्वास्थ्यं कामयते इति समाधिकामः, चित्तस्थैर्याभिलाषी तपस्वी श्रमणः साधुस्तेषु विषयेषु कदाचिद्भावं चित्ताभिप्राय न सृजेन्न कुर्यात् । तेषु केषु ? ये विषया इन्द्रियाणां कर्णादीनां मनोज्ञा-वल्लभा वर्तन्ते । तथा च पुनर्येऽमनोज्ञा-अप्रियास्तेष्वमनोज्ञेष्विन्द्रियाणां विषयेषु मनो न कुर्यात्, इत्यनेन सुन्दरेषु विषयेषु सरागं मनो न कुर्यात्, तथाऽसुन्दरेषु विषयेषु सद्वेषं मनो न कुर्यात् ॥२१॥ १निसिरे-निसजेदिति व्याख्या अन्यस्मिन् संस्करणे ॥