________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[१६९ स्थिरस्यादित्यर्थः । तत् किं किमार्यध्यानयोग्यं ? तदाह-स्त्रीणामदर्शनं रागेणाऽनवलोकनं, च पादपूरणे, एव-निश्चये । पुनः किं? स्त्रीणामप्रार्थनमभिलाषस्याऽकरणम् । पुनः स्त्रीणामचिन्तनं, यत्कदाचिद्रूपादिकं दृष्टं, तस्य चेतसि न स्मरणमपरिभावनमित्यर्थः । पुनः स्त्रीणामकीर्तनं, नाम्ना गुणेन वा न कीर्तनमकीर्तनं, नामगुणोच्चारणस्याऽकरणम् । यदि ब्रह्मचारी स्त्रीणां दर्शनं प्रार्थनं चिन्तनं कीर्तनं करोति, तदा तस्यार्यध्यानस्योत्तमध्यानस्य स्थैर्य न स्यात् । एतत्तु धर्मध्यानस्य योग्यं हितं नास्ति ॥ १५ ॥
ननु कश्चिद्वक्ष्यति विकारहेतौ सति विक्रियन्ते येषां न चेतांसि ते एव धीराः, तत्किं विविक्तशयनासनसेवनेन ? इति चेत्तत्राह
कामं तु देवीहिं विभूसियाहिं, न चाइया खोभइउं तिगुत्ता। तहावि एगंतहियंति नच्चा, 'विवित्तभावो मुणिणं पसत्थो ॥१६॥
हे शिष्य ! तथापि मुनीनां विविक्तभाव-एकान्तस्थाननिवासः प्रशस्तः । किं कृत्वा ? विविक्तभावमेकान्तहितं मत्वा । तथेति कथं ? यद्यपि त्रिगुप्तास्तिसृभिर्गुप्तिभिर्गुप्ता मुनयः काममत्यर्थं देवीभिः क्षोभयितुं ध्यानाच्चालयितुं न 'चाइया' इति न शकिताः । कीदृशीभिर्देवीभिः ? विभूषिताभिराभूषणयुक्ताभिः, यदि देवाङ्गनाभिराभरणालङ्कृताभिरपि साधवो ध्यानान्न चालितास्तदा मानुषीभिस्तु क्षोभं प्रापयितुमशक्या एव । तथापि स्त्रीप्रसङ्गत्यागं मुनीनामेकान्तहितं ज्ञात्वा स्त्र्यादिरहितोपाश्रये स्थितिः श्रेयसीति भावः ॥ १६ ॥
स्त्रीप्रसङ्गत्यागं पुनरपि दृढयतिमुक्खाभिकंखस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए, जह त्थिओ बालमणोहराओ ॥ १७ ॥
मोक्षाभिकाङ्क्षस्य-मोक्षाभिलाषुकस्य मानवस्य संसारभीरोरपि, तथा धर्मे स्थितस्य, श्रुतधर्मे स्थितस्य संसारे तादृशं दुस्तरमन्यत्किमपि नास्ति, यथा लोके-संसारेस्त्री दुस्तरास्ति । कीदृशी स्त्री ? बालमनोहरा, बालानामविवेकिनां मनांसि हरतीति बालमनोहरा, तुशब्दः पादपूरणे विशेषार्थे च ॥ १७ ॥
स्त्रीसङ्गातिक्रमे गुणमाह
एएसि संग समइक्वमित्ता, सुहत्तरा चेव भवंति सेसा । - जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥१८॥
मनुष्याणामेतान् स्त्रीसम्बन्धिसङ्गान् समतिक्रम्य शेषा धनधान्यादिसम्बन्धाः सुखोत्तराश्चैव भवन्ति । सुखेनोत्तीर्यन्ते इति सुखोत्तराः । यथा महासागरं स्वयम्भूरमणसदृशं १ विवित्तवासो-केचित् संस्करणे ॥