________________
१६८ ]
[ उत्तराध्ययनसूत्रे -भाग- २ दमितेन्द्रियाणां वशीकृतेन्द्रियाणाम्, अर्थाद्योगिनां चित्तं रागवैरी न पराभवति । क इव ? औषधैः पराजित - भेषजैस्तिरस्कृतो व्याधिरिव यथा भेषजैर्निवारितो व्याधिर्देहं पराभवितुं न शक्नोति । तथा रागशत्रुरप्येकान्तवसनतपश्चरणेन्द्रियदमनाद्युपायैः पराभूतः साधूनां चित्तं न क्षोभयति ॥ १२ ॥
स्त्रीप्रमुखसहितस्थानस्य दूषणमाह
जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था ।
एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥
यथा बिडालावसथस्य मूले, बिडालस्यावसथं, तस्य मूले- समीपे मूषकाणामुन्दराणां वसति - स्थितिः प्रशस्ता न, समीचीना न भवति, बिडालगृहसमीपे मूषकास्थितिर्मरणायैव । एवममुना दृष्टान्तेन स्त्रीनिलयस्य, स्त्रिया सहितो निलयं गृहं स्त्रीनिलयस्तस्य स्त्रीनिलयस्य मध्ये ब्रह्मचारिणो निवासः क्षमो न युक्तो नास्ति । तत्र वसमानस्य ब्रह्मचारिणो ब्रह्मचर्यस्य नाश एव स्यादिति भावः ॥ १३ ॥
स्त्र्यादिरहिते स्थाने वसमानेनापि स्त्रीसम्पाते किं कर्तव्यं ? तदाहन रूवलावण्णविलासहासं, न जंपियं इंगियपेहियं वा । इत्थीण चित्तंसि निवेसइत्ता, दट्टु ववस्से समणे तवस्सी ॥ १४ ॥
तपस्वी श्रमणः स्त्रीणामेतत्सर्वं चेष्टितं चित्ते - स्वकीये मनसि संनिवेश्य सम्यगवधार्य द्रष्टुं न व्यवसेत, दर्शनाय सोद्यमो न भवेत् । कोऽर्थः ? साधुः स्त्रीणामेतच्चेष्टितं हृदि धृत्वैतच्चेष्टितं द्रष्टुं व्यवसायं न कुर्यात् । यतो हि पूर्वं मनस इच्छायाः प्रवृत्तिः, ततश्चक्षुरादीनामिन्द्रियाणां प्रवृत्तिरिति । तत् स्त्रीणां किं किं चेष्टितं तदाह-रूपं स्त्रीणां गौरादिवर्णः, लावण्यं नयनाह्लादकः कश्चिद्गुणविशेषः, विलासो विशिष्टनयनचेष्टाविशेषः अथवा मन्थरगतिकरणादिकः, हास्यं स्मितमीषद्दन्तानां दर्शनं, जल्पितं मन्मनोल्लापादिकं, इङ्गितमङ्गोपाङ्गादिमोटनं स्वचित्तविकारसूचकम् । प्रेक्षितं वक्रालोकनं । रूपं च लावण्यं च विलासश्च हास्यं च रूपलावण्यविलासहास्यानि तेषां समाहारो रूपलावण्यविलासहास्यम् । एतत्सर्वं स्त्रीणां साधुना रागेण न दृष्टव्यमिति भावः ॥ १४ ॥
अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभचरे रयाणं ॥ १५ ॥
ब्रह्मचर्ये-ब्रह्मव्रते रतानां सावधानानां साधूनामेतदार्यध्यानयोग्यं हितं वर्तते, आर्यं च तद्भयानं चार्यध्यानं, सम्यग्ध्यानं धर्मशुक्लादिकं, तस्य योग्यं हितं पथ्यं, धर्मध्यानस्य स्थैर्यकारकं भवति । कोऽर्थः ? यदा हि ब्रह्मचर्यधारिण एतत्कुर्वन्ति, तदा तेषां धर्मध्यानं