________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[ १६७
शिष्य ! अहमानुपूर्व्याऽनुक्रमेण तानुपायां 'स्ते' तव कीर्तयिष्यामि । तान् कान् ? ये ये उपाया रागं च पुनद्वेषं तथैव मोहं समूलजालं मूलसहितमुद्धर्तुकामेन पुरुषेण प्रतिपत्तव्या - अङ्गीकर्तव्याः, उपायशब्देन तदुद्धरणहेतवः ॥ ९ ॥
रसा पकामं न निसेवियव्वा, पायं रसा दित्तकरा नराणं ।
दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ॥ १० ॥
-
"
रागद्वेषमोहोन्मूलनमिच्छता नरेण रसाः शृङ्गारादयो दधिदुग्धघृतादयो वा प्रकाममत्यन्तं रसलोलुपत्वेन न निषेवितव्याः, मुहुर्मुहुर्न सेवनीया इत्यर्थः । प्रायेण रसाः सेविताः सन्तो नराणां दीप्तिकरा भवन्ति, धातुबलवीर्यादि दीप्त्युत्पादका भवन्ति । च पुनर्दीप्तं धातुबलवीर्यादियुक्तं मनुष्यं कामाः समभिद्रवन्ति, विषयाः समभ्यायान्ति तथा दीप्तं वनिता अभिलषन्तीति भावः । के कमिव ? पक्षिणः स्वादुफलं दुममिव । स्वादूनि - स्वादयुक्तानि फलानि यस्य स स्वादुफलस्तं मधुरफलं वृक्षं प्रति पक्षिणस्तदभिलाषिणोऽभिमुखमायान्ति, तथा बलिष्टं दीप्तं पुरुषं कामा वनितादयोऽभिमुखमायान्तीति भावः । इत्यनेन रसप्रसेवने दोष उक्तः ॥ १० ॥
अथ सामान्येन प्रकामभोजने दोषमाह
जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उas | एविंदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥ ११ ॥
यथा दवाग्निर्दवानलः प्रचुरेन्धने - बहुलकाष्टे वने लग्न उपशमं नोपैति-नोपशाम्यति । कीदृशो दावानलः ? समारुतः - पवनसहितः । एवं सकाष्टवनलग्नसपवनदवाग्निदृष्टान्तेन प्रकामभोजिनो मात्राधिकाहारकारिणो ब्रह्मचारिण इन्द्रियाग्निर्हिताय न भवति, ब्रह्मचर्य - क्षयाय भवति । अत्रेन्द्रियशब्देनेन्द्रियजनितरागो गृह्यते, इन्द्रियजनितरागस्याऽनर्थहेतुत्वात्, दवाग्नेरुपमा धर्मवनदाहकत्वात् । मात्राधिकाहारकरणादिन्द्रियग्रामो बलवान् भवति ॥११॥ पुना रागाद्युद्धर्तुकामेन किं कर्तव्यमित्याह
विवित्तसयणासणजंतियाणं, ओमासणाणं दमिइंदियाणं ।
नरागसत्तू धरसेइ चित्तं, पराइओ वाहिरिवोसहिं ॥ १२ ॥
रागशत्रू राग एव शत्रुर्वैरी रागशत्रुरेतादृशानां साधूनां चित्तं न घर्षयति, न पराभवति । एतादृशानां कीदृशानां ? विविक्तशयनासनयन्त्रितानां विविक्ताः स्त्रीपशुपण्डकादिरहिता या शयनोपाश्रयो विविक्तशयना, तत्र यदासनं निवासो विविक्तशयनासनं, तेन यन्त्रिताःसहिता विविक्तशयनासनयन्त्रितास्तेषां विविक्तशयनासनयन्त्रितानां, एकान्तस्थाननिवाससहितानाम् । पुनः कीदृशानाम् ? अवमाशनानामूनाहारकारिणाम् । पुनः कीदृशानां ?