________________
१६६ ]
[ उत्तराध्ययनसूत्रे-भाग-२
अथ दुःखप्रमोक्षहेतुज्ञापनार्थं दृष्टान्तमाह
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥ ६ ॥
यथा बलाकापक्षिण्यण्डप्रभवा । अण्डं प्रभवमुत्पत्तिकारणं यस्याः साण्डप्रभवा, अण्डादुत्पन्नेत्यर्थः । यथा च पुनरण्डं बलाकाप्रभवम्, बलाका पक्षिणी प्रभवो यस्य तद्बलाकाप्रभवम्, अण्डं बलाकात उत्पन्नमित्यर्थः । एवममुना दृष्टान्तेनैव खु-निश्चयेन तृष्णां-वाञ्छां मोहायतनं वदन्ति, मोहस्याऽज्ञानस्यायतनमुत्पत्तिहेतुं पण्डितास्तृष्णां वदन्तीति भावः । च पुनर्मोहं तृष्णायतनं, तृष्णाया- वाञ्छाया उत्पत्तिस्थानं पण्डिता वदन्ति । तृष्णा हि वस्तुनि मूर्च्छा सा च रागप्रधाना, अतस्तया राग उपलक्ष्यते, रागे सति द्वेषोऽपि स्यात्, अतस्तृष्णाग्रहणेन रागद्वेषावुक्तौ ॥ ६ ॥
अतो रागद्वेषयोराधिक्यमाह
रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ७ ॥
रागो मायालोभात्मकः, च पुर्नद्वेषः क्रोधमानात्मकः, एतौ द्वावपि कर्मबीजं कर्मणां ज्ञानावरणादीनामष्टानां बीजं - कारणं, कर्मबीजं कः ? कारणमित्यर्थः । च पुनः कर्माष्ट प्रकारकं मोहप्रभवं, मोहो मूर्छाऽज्ञानं तदेव प्रभवो यस्य तन्मोहप्रभवं तीर्थङ्कस वदन्ति । कर्मेति जातित्वादेकवचनं, कर्मणां मोहः कारणमित्यर्थः । तथा पुनः कर्माष्टप्रकारकं जातिमरणस्य मूलम् जातिश्च मरणं चानयोः समाहारो जातिमरणं, तस्य जातिमरणस्यजन्ममरणस्य मूलं वदन्ति । च पुनर्दुःखं तु जातिमरणमेव वदन्ति । जन्ममृत्यू एव दुःखं तीर्थङ्करा गणधराश्च वदन्ति, जन्ममरणाभ्यां व्यतिरिक्तमन्यदुःखं नास्तीत्यर्थः ॥ ७ ॥
दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणावि ॥ ८ ॥
यस्य मोहो न भवति, तस्य पुरुषस्य दुःखं हतं, येन पुरुषेण मोहो हतस्तस्य स्वयमेव दुःखं तं मृतमित्यर्थः, तृष्णाया अभावे मोहस्याप्यभावः । यस्य तृष्णा-वाञ्छा हता, त लोभो न भवति, निःस्पृहस्य तृणं जगदित्युक्तत्वात् । यस्य लोभो हतो - निवृत्तस्तस्य न किञ्चनापि न किमपीत्यर्थः, स सर्वथाप्यकर्मको भवति ॥ ८ ॥
अथ मोहादीनामुन्मूलनोपायमाह
रागं च दोसं च तहेव माोहं उद्धत्तुकामेण समूलजालं ।
"
जे जे उपाय पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुवि ॥ ९ ॥