SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ३२, प्रमादस्थानाख्यमध्ययनम् ] अथ मनोज्ञामनोज्ञयोः स्वरूपमाह [ १७१ चक्खुस्स रूवग्गहणं वयंति, तं रागहेडं तु मणुन्नमाहु | तं दोसहेउं अमणुन्नमाहु, समो य यो तेसु स वीयरागो ॥ २२ ॥ चक्षुषो लक्षणं रूपग्रहणं तीर्थङ्करा वदन्ति । रूपं वर्ण: संस्थानं वा तद्गृह्यतेऽनेनेति रूपग्रहणम्, चक्षुरिन्द्रियस्यैतल्लक्षणम् । तमिति तद्रूपं रागहेतुकं मनोज्ञमाहुः, यस्मिन् रूपे दृष्टे राग उत्पद्यते तद्रूपं मनोज्ञमाहुः, तदेव रूपं द्वेषहेतुकममनोज्ञमाहुः, यस्मिन् रूपे दृष्टे द्वेष उत्पद्यते तद्रूपममनोज्ञमित्यर्थः । यः साधुस्तेषु मनोज्ञामनोज्ञेषु रूपेषु समः सदृशवृत्तिः स्यात् स साधुर्वीतराग उच्यते ॥ २२ ॥ रूवस्स चक्खु गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हे समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ २३ ॥ तीर्थङ्कराश्चक्षुरिन्द्रियं रूपस्य विषयस्य ग्रहणं वदन्ति । गृह्णातीति ग्रहणं, कर्तरि युप्रत्ययः, रूपस्य ग्राहकं चक्षुरित्यर्थः । पुनस्तीर्थकराश्चक्षुरिन्द्रियस्य रूपं विषयं ग्रहणं वदन्ति । गृह्यते इति ग्रहणं - ग्राह्य, चक्षुषा ग्राह्यं रूपं यच्चक्षुरिन्द्रियेण ग्राह्यं तदेव रूपमितिभावः । अनेन रूपचक्षुषोर्ग्राह्यग्राहकभावेन परस्परमुपकार्योपकारकभावेन च सम्बन्ध उक्तः । इत्यनेन रूपं रागद्वेषकारणं, तथा चक्षुरपि रागद्वेषकारणमुक्तम् । तत्समनोज्ञं चक्षुरिन्द्रियं रागहेतुमाहुः सह मनोज्ञेन ग्राह्येण रूपेण वर्तते इति समनोज्ञं मनोज्ञरूपग्राहकं नेत्रं रागहेतुकमित्यर्थः । अमनोज्ञरूपग्राहकं द्वेषस्य हेतुं - हेतुकमाहुः - कथयन्ति ॥ २३ ॥ रागस्य दूषणमाह रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे से जहा वा पयंगे, आलोयलोले समुवेई मच्चुं ॥ २४ ॥ यः प्राणी रूपेषु तीव्रामुत्कटां गृद्धि रागमुपैति प्राप्नोति करोति, धातूनामनेकार्थत्वात् । स प्राणी रागातुरः सन् रागपीडितः सन्नकालिकमेव विनाशं प्राप्नोति, अकाले भवमकालिकं, आयुषः स्थितेरर्वागेव म्रियते, यतो मनुष्या हि सोपक्रमायुषः स्युः । क इव ? यथा वेति, वाशब्द इवार्थे, यथैवालोके प्रदीप्तदीपशिखादर्शने लोलो- लम्पट आलोकलोलः पतङ्गश्चक्षुरिन्द्रियो जीवो मृत्युं समुपैति तथा रागातुरो जीवोऽकालमृत्युं समुपैतीत्यर्थः ॥ २४ अथ द्वेषदूषणमाह जे आवि दोसं समुवेइ तिव्वं, तंसि खणे से समुवेई दुक्खं । दुर्द्दतदोसेण सएण जंतु, न किंचि रूवं अवरज्झई से ॥ २५ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy