________________
३१, चरणविधिनामाख्यमध्ययनम्]
[१६३ अणगारगुणेहिं च, पकप्पम्मि तहेव य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥ यो भिक्षुः सप्तविंशतिसङ्ख्येष्वनगारगुणेषु, तथैव प्रकल्पे आचाराङ्गसूत्रोक्तशास्त्रपरिज्ञानाद्यष्टाविंशत्यध्ययनात्मके साधोः प्रकृष्टाचारे आचाराङ्गे यतते, सम्यगभ्यासं कुरुते, स संसारे न तिष्ठति ॥१८॥
पावसुयप्पसंगेसु, मोहठाणेसु चेव य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥ यो भिक्षुरेकोनत्रिंशत्यापश्रुतप्रसङ्गेषु, तथा त्रिंशन्मोहस्थानेषु यतते, स संसारे न तिष्ठति । पापोपादानानि श्रुतानि पापश्रुतानि, तेषु प्रसङ्गास्तथाविधशक्तिरूपाः पापश्रुतप्रसङ्गास्तेष्वष्टाङ्गनिमित्तादिशास्त्राभ्यासेषु । मोहो मोहनीयं कर्म, तत्तिष्ठति येषु तानि मोहस्थानानि, तेषु त्रिंशत्सङ्ख्येषु निवृत्तिं कुरुते ॥१९॥
सिद्धाइगुणजोगेसु, तित्तीसासायणासु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥२०॥ यः साधुः सिद्धातिशयगुणेषु, एकत्रिंशत्प्रमाणेषु तथा द्वात्रिंशत्प्रमाणेषु 'योगेषु त्रयस्त्रिंशत्प्रमाणास्वाशातनासु नित्यं यतते, य एकत्रिंशत्सिद्धगुणान् ज्ञात्वा प्ररूपयति, तथा योगेषु योगसङ्ग्रहेष्वालोचनादिषु यत्नं कुरुते, आशातनासु सिमवायाङ्गसूत्रोक्तासु ज्ञात्वा स्वयं ताभ्यो निवर्तते, अन्यान्निवर्तयति, स संसारे न तिष्ठति ॥२०॥
अथाध्ययनोपसंहारमाहइइ एएसु ठाणेसु, जे भिक्खू जयई सया ।
से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥२१॥त्तिबेमि ॥ इत्यमुना प्रकारेणैतेष्वत्राध्ययनप्रोक्तेष्वसंयमादिस्थानेषु यो भिक्षुर्यतते, सदा यत्नं कुरुते । स भिक्षुः क्षिप्रं-शीघ्रं सर्वसंसारात्सर्वचतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते-प्रमुक्तो भवति । इत्यहं ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ २१ ॥
इति चरणविधिनामाख्यमध्ययनं सम्पूर्णम् ॥ ३१ ॥ - इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चरणविध्याख्यमेकत्रिंशत्तममध्ययनं सम्पूर्णम् ॥३१॥ १ सिद्धानामतिशायिनो गुणाः सिद्धातिगुणाः संस्थानादिनिषेधरूपा एकत्रिंशत्, तेषु-मु०॥ २ योगेष्विति पदैकदेशेऽपि पदप्रयोगदर्शनाद्योगसङ्ग्रहेषु, योगाः शुभमनोवाक्कायव्यापाराः, सम्यग्
गृह्यन्ते, स्वीक्रियन्ते इति योगसङ्ग्रहा आलोचनादयो द्वात्रिंशत्तेषु-मु०॥ ३ समवायाने सूत्रं ३३ तमं दष्टव्यम् ॥