________________
॥३२ प्रमादस्थानाख्यमध्ययनम्॥ पूर्वाध्ययने चारित्रविधिरुक्तः, स चाऽप्रमादिनः साधोर्भवति, तेन साधुना प्रमादः परिहर्तव्यः, ततः प्रमादज्ञानार्थं प्रमादस्थानाख्यमध्ययनमथोच्यते
अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुन्नचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥
भव्यान् प्रति भगवान् वदति । सुधर्मा स्वाम्यपि जम्बूस्वाम्यादिशिष्यान् प्रति वक्तिभो प्रतिपूर्णचित्ताः ! प्रतिपूर्ण विषयादिभ्यो विरक्तत्वेनाऽखण्डं चित्तं येषां ते प्रतिपूर्णचित्ताः, तेषां सम्बोधनं भो प्रतिपूर्णचित्ताः ! अखण्डमनस्काः ! तमेकान्तेन हितं सम्यग्ज्ञानदर्शन-चारित्रात्मकं मोक्षहेतुतया वक्ष्यमाणं 'मे' मम भाषमाणस्य वचनं यूयं श्रृणुत । किमर्थं ? हितार्थम्, तमिति किं ? यो हेतुः सर्वस्य दुःखस्य मोक्षोऽस्ति । अत्र दुःखशब्देन संसारस्य ग्रहणम् । कीदृशस्य दुःखस्य ? 'अच्चंतकालस्स' अत्यन्तमित्यन्तमतिक्रान्तमत्यन्तम्, अत्यन्तं काल
न्तं कालो यत्र सोऽत्यन्तकालस्तस्य । पुनः कीदृशस्य समलकस्य, मूलेन कषायाऽविरतिरूपेण सह वर्तते इति समूलकस्तस्य । यदुक्तम्-'मूलं संसारस्स, होंति कसाया अविरई चेव ।" ॥१॥
अथ यत्पूर्वमेव संसारस्य प्रमोक्षहेतुकं वक्तुं प्रारब्धम्, तदेवाहनाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥
जीवो ज्ञानेन दर्शनेन चारित्रेणैकान्तसौख्यं मोक्षं समुपैति प्राप्नोतीत्यन्वयः । एतावता ज्ञानस्य दर्शनस्य चारित्रस्य मोक्षं प्रति कारणतोक्तेत्यर्थः । ज्ञानस्य सर्वप्रकाशनया सर्वस्य वस्तुनः प्रकाशना-प्रकटीकरणं, प्रकाश्यतेऽनयेति प्रकाशना, तया प्रकाशनया, इत्यनेन ज्ञानात्मको मोक्षहेतुरुक्तः । पुनरज्ञानमोहस्य विवर्जनया जीवो मोक्षं समुपैति । अज्ञानं मत्यज्ञानादि, मोहो मोहनीयम्, अज्ञानं च मोहश्चानयोः समाहारोऽज्ञानमोहं, तस्याऽज्ञानमोहस्य विवर्जनया विशेषतस्त्यागेन, मिथ्याश्रुतश्रवणकुदृष्टिसङ्गत्यागेन मोक्षः स्यात्, इत्यनेन सम्यग्दर्शनात्मको मोक्षहेतुरुक्तः । तथा पुना रागस्य द्वेषस्य च सङ्क्षयेण - विनाशेन जीवो मोक्षं समुपैति । रागद्वेषाभावेन चारित्रस्याभिधानम्, इत्यनेन चारित्रात्मको मोक्षहेतुरुक्तः । ततः सम्यग्ज्ञानदर्शनचारित्रैरेकान्तसौख्यं दुःखलेशैरकलङ्कितं मोक्षं समुपैति । मोक्षश्च दुःखप्रमोक्षेणैव-संसारस्य निवृत्त्यैव स्यात् ॥२॥
अतो ज्ञानादीनां दुःखप्रमोक्षत्वमोक्षे हेतुत्वमुक्त्वेदानीं ज्ञानादीनां प्राप्तेहेतूनाहतस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा ।
सज्झायएगंतनिवेसणा य, सुतत्थसंचिंतणया धिईयं ॥३॥ १ मूलं संसारस्य, भवन्ति कषाया अविरतिश्चैव ॥