________________
१६२]
[ उत्तराध्ययनसूत्रे - भाग - २ वेयालीय' इत्यादि । संयमस्य सप्तदश भेदाः सन्ति, पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः, चतुष्कषायजयः, दण्डयविरतिश्चेति संयमः सप्तदशभेदः, एतस्माद्विपरीतोऽसंयमोऽपि सप्तदशविधः । तस्मात्सप्तदशविधेऽसंयमे यो न प्रवर्तते, स संसारे न तिष्ठति ॥ १३ ॥
बंभंमि नायज्झयणे, ठाणेसु असमाहिए ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १४ ॥
यो भिक्षूर्ब्रह्मणि- ब्रह्मचर्ये ऽष्टादशविधे, दिव्यौदारिकमैथुनानां करणकारणानुमतिभेदात् तथा मनोवाक्कायेनाष्टादशप्रकारे । तथा ज्ञाताध्ययनेष्वेकोनविंशतिसङ्ख्येषु उत्क्षिप्तादिषु तथाऽसमाधिस्थानेषु विंशतिसङ्ख्येषु यत्नं कुरुते, स संसारे न तिष्ठति । विंशत्यसमाधिस्थानानि 'समवायाङ्गसूत्रे उक्तानि ॥ १४ ॥
एगवीसाइ सबलेसु, बावीसाए परीसहे ।
जे भिक्खू जयइनिच्चं, से न अच्छइ मंडले ॥ १५॥
यो भिक्षुरेकविंशतिशबलेषु च पुनर्द्वाविंशतिपरिषहेषु यतते स साधुः संसारे न तिष्ठति । शबलयन्ति - कर्बुरयन्ति चारित्रं ये ते शबला अशुभक्रियारूपा:, तेषु शबलेषु हस्तकर्मादिषु यः परिहारबुद्धिं धत्ते । द्वाविंशतिपरीषहास्तु द्वितीयाध्ययने पूर्वमेव कथिताः, तेषां सहने स्थैर्यं कुरुते, स मण्डले न तिष्ठति ॥ १५ ॥
तेवीसाइ सूयगडेसु, रूवाहिएसु सुरेसु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १६॥
भिक्षुः सूत्रकृतेषु सूत्रकृताङ्गाध्ययनेषु त्रयोविंशतिसङ्ख्येषु, तथा रूपाधिकेषु, रूपमेकाङ्कं, तेनाधिका रूपाधिकास्तेषु रूपाधिकेषु । त्रयोविंशत्यध्ययनानि सूत्रकृताङ्गस्य वर्तन्ते, तानि यदैकेनाधिकानि भवन्ति तदा चतुर्विंशतिसङ्ख्याकानि भवन्ति, तेषु चतुर्विंश - तिसुरेषु भुवनपत्यादिषु । अथवा देवेषु ऋषभादिचतुर्विंशतिसङ्ख्येषु यत्नं कुरुते, एतेषु ज्ञानोपयोगं कुरुते, स मण्डले न तिष्ठति ॥ १६ ॥
पणवीसभावणाहिं, उद्देसेसु दसाइणं ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १७ ॥
यो भिक्षुः पञ्चविंशतिभावनासु, पञ्चमहाव्रतविषये ईर्यासमित्यादिसाधनारूपासु, तथा 'दसाइणं' इति दशादीनां दशाश्रुतस्कन्धकल्पव्यवहाराणामुद्देशेषु षड्विंशतिसङ्ख्येषु यत्नं कुरुते स मण्डले न तिष्ठति ॥ १७ ॥
१ समवायाङ्गे सूत्रं २० तमं द्रष्टव्यम् ॥