________________
३१,
चरणविधिनामाख्यमध्ययनम् ]
मयेसु बंभगुत्तीसु, भिक्खूधम्मंमि दसविहे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १० ॥
यो भिक्षुर्मदेषु जात्यादिष्वष्टसु तथा ब्रह्मगुप्तिषु नवसु ब्रह्मचर्यरक्षणवाटिकासु, तथा दशविधेषु क्षान्त्यादिषु साधुधर्मेषु यतते, मदानां परिहारे ब्रह्मगुप्तिनां रक्षणे, दशविधक्षान्त्यादिसाधुधर्मपालने उद्यमं कुरुते, स संसारे न तिष्ठति ॥ १० ॥
उवासगाणं पडिमासु, भिक्खूणं पडिमासु य ।
जे भिक्खू जयई निच्चं, से न अच्छई मंडले ॥ ११ ॥
[ १६१
यः साधुरुपासकानां श्राद्धानामेकादशसु प्रतिमासु, तथा भिक्षूणां द्वादशसु प्रतिमासु यत्नं कुरुते, श्राद्धप्रतिमानां सम्यग्ज्ञानेनोपदेशदानेन, भिक्षुप्रतिमानां च सम्यग् ज्ञात्वा पालने यत्नं कुरुते, स संसारे न तिष्ठति । प्रतिमा अवग्रहविशेषा उच्यन्ते ॥ ११ ॥ किरियासु भूयगामेसु, परमाहम्मिसु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १२ ॥
यो भिक्षुः क्रियासु कर्मबन्धनभूतासु चेष्टासु, स्वार्थानर्थादिभेदेन त्रयोदशसु तथा भूतग्रामेषु भूतानां प्राणिनां ग्रामाः - सङ्घाताः स्थानानीति यावत्, तेषु भूतग्रामेषु चतुर्दशसु 'एगिंदियसुहुमियरा इत्यादिषु, तथा परमाधार्मिकेषु पञ्चदशसु अंबे अंबर चेव' इत्यादिषु यत्नं कुरुते, त्रयोदशक्रियाणां परिहारे, चतुर्दशभूतग्रामाणां रक्षणे, परमाधार्मिकाणां परिज्ञानाद् दुष्टकर्मभ्यो निवर्तने उद्यतो भवति, स संसारे न तिष्ठति ॥ १२ ॥ गाहासोलसएहिं, तहा अस्संजमंमि य ।
जे भिक्खू जयई निच्चं, से न अच्छई मंडले ॥ १३ ॥
यो भिक्षुर्गाथाषोडशकेषु, तथा असंयमे सप्तदशविधेऽपि नित्यं यतते यत्नं कुरुते, स मण्डले न तिष्ठति । गीयते कथ्यते स्वसमयपरसमयरूपोऽर्थो याभिस्ता गाथाः, तासां षोडशकानि सूत्रकृताङ्गाध्ययनषोडशकानि गाथाषोडशकानि, तेषु गाथाषोडशकेषु, सप्तमीबहुवचने तृतीयाबहुवचनं प्राकृतत्वात् । सूत्रकृताङ्गाध्ययनानि षोडश सन्ति समओ १ एगिंदियसुहूमियरा, सन्नियर पणिदिया य सबितिचउ ।
अपज्जत्ता पज्जत्ता, कमेण चउदस जिअट्ठाणा ॥ ४ ॥ नवतत्त्वप्रकरेण
२ अंबे अंबरिसी चेव, सामे सबलेत्ति आवरे । रुद्दोवरुद्दकाले अ, महाकालेत्ति आवरे ॥ १ ॥ असिपत्ते धणुकुम्भे, वालुए वेअरणीति अ ।
खरस्सरे महाघोसे, एते पन्नरसाहिआ ॥ २ ॥ समवायाङ्ग सूत्र १५ ॥