________________
१६०]
[ उत्तराध्ययनसूत्रे-भाग-२ बाध्यते जन्तुरेभिरिति शल्यानि, तेषां त्रिकं मायानिदानमिथ्यादर्शनशल्यरूपं शल्यत्रिक ज्ञेयम् । एतेषां यो निषेधकः स मुनिर्मुक्तिगामीत्यर्थः ॥ ४ ॥
दिव्वे य जे उवस्सग्गे, तहा तेरिच्छमाणुसे । .....
जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥५॥ यो भिक्षुर्दिव्यान् देवैः कृतान्, तथा तैरश्चास्तिर्यग्भिः कृतान्, तथा मानुष्यकान् मनुष्यैः कृतान्, उपसर्गान् सम्यक् कषायाऽभावेन सहते, स मण्डले-संसारे न तिष्ठति ॥५॥
विगहाकसायसन्नाणं, झाणाणं च दुयं तहा ।
जे भिक्खू वज्जइ निच्चं, से न अच्छड़ मंडले ॥६॥ यो भिक्षुर्विकथाचतुष्कं राज्यदेशभोजनस्त्रीणां वर्णनारूपं, क्रोधमानमायालोभरूपं कषायचतुष्कं , संज्ञाचतुष्कमाहारभयपरिग्रहमैथुनरूपविकारचिन्तनरूपं ज्ञेयम् । च पुनानयोढिकमार्त्तरौद्ररूपं त्यजति, स साधुः संसारे न तिष्ठति । प्राकृतत्वाद्धयानानामिति बहुवचनम् । ध्यानानां चतुष्टये वर्जनीयं ध्यानद्वितयं ज्ञेयम्, तस्माद् द्वयोरेव ग्रहणम् ॥६॥
वएसु इंदियत्थेसु, समिईसु किरियासु य ।
जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ॥७॥ यो भिक्षुर्वतेषु प्राणातिपातविरत्यादिषु, तथेन्द्रियार्थेषु शब्दादिषु, तथा समितिषु पञ्चसु, तथा क्रियासु कायिक्यधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातिकीषु पञ्चसु यतते-यत्नं कुरुते, हेयोपादेयबुद्धि कुरुते, स मण्डले न तिष्ठति ॥७॥
लेसासु छसु कायेसु, छक्के आहारकारणे । . जे भिक्खू जयई निच्चं, से न अच्छड़ मंडले ॥८॥
यः साधुः षट्लेश्यासु, पुनः षट्सु कायेषु, तथाऽऽहारकारणषट्के यतते, यथायोगं विपरीतलेश्यानां निरोधेन, सम्यग्लेश्यानां धारणेन, षट्कायानां रक्षणेन, षड्भिः पूर्वोक्तैः कारणैराहारकरणेन यत्नं कुरुते, स साधुर्मण्डले न तिष्ठति ॥८॥
पिंडुग्गहपडिमासु, भयट्ठाणेसु सत्तसु ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥ यो भिक्षुः संसृष्टादिषु सप्तसु पिण्डावग्रहप्रतिमास्वाहारग्रहणविषयाभिग्रहरूपासु, तथा पुनः सप्तसु भयस्थानेष्विहलोकादिषु यतते, पिण्डग्रहणप्रतिमासु सप्तसु पालने यत्नं कुरुते, इहलोकादि सप्तसु भयस्थानेषु भयस्याऽकरणे स्थैर्यं कुरुते, स साधुर्मण्डले न तिष्ठति ॥९॥