________________
॥ ३१ चरणविधिनामाख्यमध्ययनम् ॥
पूर्वस्मिन्नध्ययने तपो मोक्षस्य मार्गत्वेन प्रकाशितम्, अथ च तपस्तु चारित्रवतः साधोरेव पार्श्वे सम्यक् प्राप्यते, इत्यग्रेतनाध्ययनेन सम्बन्धः ।
चरणविहिं पवक्खामि, जीवस्स उ सुहावहं ।
जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥ १ ॥
सुधर्मा स्वामी वदति - हे जम्बू ! अथाहं चरणविधि चारित्रस्य विधानं प्रवक्ष्यामि । कीदृशं चरणविधिं ? जीवस्य भव्यजीवस्य सुखावहं सुखपूरकं, यं चारित्रविधिं चरित्वाङ्गीकृत्य बहवो जीवाः संसारसागरं तीर्णाः ॥ १॥
एगओ विरइं कुज्जा, एगओ य पवत्तणं ।
असंजमे नियति च, संजमे य पवत्तणं ॥ २॥
साधुरेकत - एकस्मात्स्थानाद्विरतिं कुर्यान्निवर्तनं कुर्यात् । एकत एकस्मिन् स्थाने प्रवर्तनं कुर्यात् । सार्वविभक्तिकस्तस् इत्येके इत्युक्तत्वात् । एकतो विरतिं कुर्यादित्यत्र पञ्चम्यर्थे तस् । अग्रे एकत एकस्मिन् स्थाने प्रवर्तनं कुर्यादित्यत्र सप्तम्यर्थे तस्प्रत्ययः, निवर्तनप्रवर्तनयोः स्थानमाह-असंयमे इत्यसंयमात् हिंसाद्याश्रवान्निवृत्तिं कुर्यात् । च पुनः संयमे सप्तदशविधे च प्रवर्तनमुद्यमं कुर्यात् ॥ २ ॥
रागद्दोसे य दो पावे, पावकम्मपवत्तणे ।
जे भिक्खू भइ निच्चं, से न अच्छइ मंडले ॥ ३ ॥
रागद्वेषौ द्वौ पापौ मलिनौ, तथा पापकर्मप्रवर्तकौ, पापकर्माणि मिथ्यात्वादीनि, तेषां प्रवर्तकौ भवतः । अतो यो भिक्षुः साधुस्तौ रागद्वेषौ निरुणद्धि, कथञ्चिदुदयं प्राप्त सतौ ज्ञानेन त्वरितमत्यन्तं तिरस्कुरुते, स साधुर्भिक्षुर्मण्डले चातुर्गतिकसंसारे न 'अच्छइ' इति न तिष्ठति, संसारान्मुक्तो भवति ॥ ३ ॥
दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई निच्चं, से न अच्छइ मंडले ॥ ४ ॥
यो भिक्षुर्दण्डानां च पुनर्गारवाणां च पुनः शल्यानां प्रत्येकं त्रिकं त्रिकं त्यजति, स्वस्यात्मनि न धारयति, स भिक्षुः संसारे न तिष्ठति पूर्ववत् । दण्डयते चारित्रधनापहारेण दरिद्रः क्रियते आत्मैभिरिति दण्डा दुरध्यवसायाः, तेषां त्रिकं मनोवाक्कायैर्दुष्टाध्यवसायचिन्तनत्वेन त्रिः प्रकारकं एतद्दण्डत्रिकम् । तथा गुरोर्लोभादिसहितस्य चित्तस्य भावा, अध्यवसायानि गौरवाणि तेषां त्रिकं ऋद्धिगौरवरसगौरवसातागौरवरूपम् । तथा शल्यते
,