________________
१५८ ]
अथ ध्यानमाह
[ उत्तराध्ययनसूत्रे - भाग - २
अट्टरोद्दाणि वज्जित्ता, झाइज्जा सुसमाहिए ।
धम्मसुक्काई झाणाई, झाणं तत्तु बुहा वए ॥ ३५ ॥
बुधाः पण्डितास्तदा तद्धयानं वदन्ति । तदेति कदा ? यक्ष सुसमाहितः सम्यक् समाधियुक्तः साधुरार्त्तरौद्रे दुर्ध्याने त्यक्त्वा धर्मशुक्लध्याने ध्यायति, तदा ध्यानं ध्यानाख्यं तपो ज्ञेयमित्यर्थः ॥ ३५ ॥
अथ कायोत्सर्गतप उच्यते
सयणासणठाणे वा, जे उ भिक्खू ण वावरे ।
कायस्स विउस्सग्गो, छट्टो सो परिकित्तिओ ॥ ३६ ॥
तत् षष्ठं कायोत्सर्गाख्यं तपः परिकीर्तितम् । तत् किं ? यत्र शयनासनस्थाने भिक्षुःसाधुर्न व्याप्रियते, न व्यापारं कुर्यात्, शयने स्वापे, आसने उपवेशने, स्थाने उर्ध्वस्थितौ यथाशक्ति कायस्य व्युत्सर्गो ममत्वस्य त्यागः स्यात्, तदा कायोत्सर्गाख्यं तपो भवति ॥ ३६ ॥
एवं तवं तु दुविहं, जे सम्मं आयरे मुणी ।
से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ ३७ ॥ त्तिबेमि ॥
यो मुनिर्यः साधुरेवममुना प्रकारेण बाह्याभ्यन्तरभेदेन द्विविधं तपः सम्यगाचरति, स पण्डितस्तत्वज्ञो मुनिः क्षिप्रं शीघ्रं संसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते । अत्र स्कन्दककथा । इत्यहं ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ ३७ ॥
इति तपोमार्गाध्ययनं त्रिशत्तमं सम्पूर्णम् ॥ ३० ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां तपोमार्गाध्ययनं त्रिंशत्तमं सम्पूर्णम् ॥ ३० ॥