________________
३०, तपोमार्गाख्यमध्ययनम्]
[१५७ तत्प्रायश्चित्तमाख्यातं, तत् किं ? यद्भिक्षुः-साधुर्दशविधमालोचनार्हादिकं सम्यग्वहति, कायेन सेवते, तत्प्रायश्चित्ताख्यमभ्यन्तरं तप आख्यातं, तीर्थकरैरुपदिष्टम् । आलोचनार्हादिकं किमुच्यते ? आलोचनं गुरोरग्रे पापप्रकाशनं, तस्मै अर्हति योग्यो भवतीत्यालोचनाहे तपःक्रियानुष्ठानादिकं, यतो हि पापमालोचनातः शुद्धयति, आलोचनाहमादिर्यस्य तदालोचनार्हादिकं दशविधं यथा ।
"'आलोयणा १ पडिक्कमणे २ मीस ३ विवेगे ४ तहा वि उस्सग्गे ५ । तव्व ६ छेय ७ मूल ८ अणट्ठीया य ९ पारंचिए १० चेव ॥ ३१ ॥" . अथ विनयभेदानाह
अब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥३२॥
अभ्युत्थानं गुरुनागतान् दृष्ट्वा स्वकीयस्थानादूर्वीभवनं, अञ्जलिकरणं करद्वययोजनं, तथैवासनदापनम्, गुरोरुपरि भक्तिभावः, शुश्रूषा गुरोरादेशकरणं, एष विनयो व्याख्यातः । इति विनयनामकं पञ्चविधतप उक्तमित्यर्थः ॥ ३२ ॥ अथ वैयावृत्त्यं कथ्यते
आयरियमाइयंमि, वेयावच्चंमि दसविहे ।
आसेवणं जहाथामं, वेयावच्चं तमाहियं ॥ ३३ ॥ तद्वैयावृत्त्यमाख्यातम् । तदिति किं ? यत् 'जहाथामं' इति यथाबलं आचार्यादौ विषये दशविधे वैयावृत्त्यमुचिताहारादिदानं, तथा ऽऽसेवनं तद्वैयावृत्त्याख्यं तपः कथितमित्यर्थः । आचार्यादयो दश वैयावृत्त्ययोग्या अमी-आचार्य १, उपाध्याय २, स्थविर ३, तपस्वि ४, ग्लान ५, शैक्ष (नूतन दीक्षित)६, साधर्मिक ७, कुल ८, गण ९, सङ्घ १०, एते दश वैयावृत्त्यार्हाः ॥ ३३ ॥ अथ स्वाध्यायमाह
वायणा पुच्छणा चेव, तहेव परियट्टणा ।
अणुप्पेहा धम्मकहा, अज्झाओ पंचहा भवे ॥३४॥ वाचना, पृच्छना, परिवर्तना, अनुप्रेक्षा, धर्मकथा चेति स्वाध्यायः पञ्चधा भवति, एतेषामर्थस्तु पूर्वं कृत एवास्ति ॥ ३४ ॥ १ आलोचना १, प्रतिक्रमणे २, मिश्र ३, विवेकौ ४, तथा व्युत्सर्गे । तपश्छेदमूलानवस्थिताश्च पाराञ्चिकश्चैव ॥१॥