________________
१५६]
[ उत्तराध्ययनसूत्रे-भाग-२ अथ कायक्लेशतप आह
ठाणा वीरासणाईया, जीवस्स उ सुहावहा ।
उग्गा जहा धरिज्जति, कायकिलेसं वियाहियं ॥२७॥ तत्कायक्लेशतपो व्याख्यातम्, तदिति किं ? यत्र वीरासनादीनि स्थानानि कायस्थितिविशेषाणि यथा धार्यन्ते क्रियन्ते, वीरासनगरुडासनलगुडासनादीनि यथा क्रियन्ते, तथा कायक्लेशः स्यात् । कथंभूतानि स्थानानि ? जीवस्य सुखावहानि, कर्मनिर्मूलनक्षमाणि, पुनः कीदृशानि ? उग्राणि भीषणानि, यैस्तैः पुरुषैः कर्तुमशक्यानि, प्राकृतत्वाल्लिङ्गव्यत्ययः ॥ २७ ॥ अथ संलीनतामाह
एगंतमणावाए, इत्थीपसुविवज्जिए ।
सयणासणसेवणया, विवित्तसयणासणं ॥२८॥ एकान्ते जनैरनाकुले, पुनरनापाते, न विद्यते आपातः स्त्रीपुरुषादीनामागमनं यत्र तदनापातं, तस्मिन् । पुनः स्त्रीपशुपण्डकादिविवर्जिते, आरामोद्यानशून्यगृहादिस्थाने शयनासनसेवनया कृत्वा संलीनताख्यं तपो ज्ञेयमित्यर्थः ॥२८॥
एसो बहिरंगतवो, समासेण वियाहिओ।
अभितरतवं एत्तो, वुच्छामि अणुपुव्वसो ॥ २९ ॥ एतत्पूर्वोक्तं समासेन-सक्षेपेण बाह्यं तपो व्याख्यातम् । एत्तो' इति इतोऽनन्तरमभ्यन्तरं तपो वक्ष्येऽनुक्रमेण ॥ २९ ॥ एतत्किं तदाह
पायच्छित्तं विणओ, वेयावच्चंतहेव सज्झाओ।
झाणं उस्सग्गोवि य, अभितरओ तवो होइ ॥३०॥ पापमालोच्य तपसोऽङ्गीकरणं प्रायश्चित्तं, तथा विनयो वृद्धानामभ्युत्थानादिकरणं, वैयावृत्त्यं वृद्धानामाहारौषधाद्यानीय दानं, तथैव स्वाध्यायः स्वाध्यायस्य पञ्चविधस्य करणं, तथा ध्यानं धर्मशुक्लादिचिन्तनं, उत्सर्गः कायोत्सर्गस्य करणं, अपि च पादपूरणे । एतदभ्यन्तरं तपो भवति ॥३०॥ अथ विस्तरेण षड्विधस्य भेदानाह
आलोयणारिहादियं, पायच्छित्तं तु दसविहं । जे भिक्खू वहइ सम्म, पायच्छित्तं तमाहियं ॥३१॥