________________
३०, तपोमार्गाख्यमध्ययनम् ]
[ १५५
"
द्रव्ये ऽशनपानादौ क्षेत्रे पूर्वोक्ते ग्रामनगरादौ, काले पौरुष्यादौ, भावे स्त्रीत्वादौ, आख्याता:- कथिता ये भावा: पर्यायास्तैः सर्वैरपि द्रव्यादिपर्यायैरवमम्-अवमौदर्यं चरति सेवते यः सोऽवमचरो भिक्षुः पर्यवचरको भवेत्, पर्यायावमौदर्यचरको भवतीत्यर्थः । एकसि-क्थकाद्यल्पाहारेण द्रव्यतोऽवमौदर्यं स्यादेव परं ग्रामादौ क्षेत्रतः, पौरुष्यादौ कालतः, स्त्री-पुरुषादौ भावतः कथमवमौदर्यं स्यात् ? उत्तरं - क्षेत्रकालभावादिष्वपि विशिष्टाभिग्रहवशादवमौदर्यं स्यादेव इह पुनः पर्यायग्रहणेन पर्यवप्राधान्यविवक्षया पर्यायावमौदर्यं ज्ञेयम् ॥ २४ ॥
भिक्षाचर्यामाह
अट्ठविहगोयरग्गं तु, तहा सत्तेव एसणा ।
अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ॥ २५ ॥
भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिका बाह्या तपस्याऽऽख्याता । अष्टविधो गोचराग्रः, प्राकृतत्वादष्टविधोऽग्रगोचर इति पाठः । अग्रः प्रधानो गोचरोऽग्रग्रोचरः, अष्टविधश्चासावग्रगोचरश्चाष्टविधाग्रगोचरः अष्टावग्रगोचरगा भेदा इत्यर्थः । पेटा १, अर्धपेटा २, गोमूत्रिका ३, पतङ्गवीथिका ४, अभ्यन्तरशम्बूकावर्त्ता ५, बाह्यशम्बूकावर्त्ता च ६, आयतगन्तुं प्रत्यागमा ७, ऋजुगतिः ८, एवमष्टौ भेदा ऋजुगतिवक्रगतिक्षेपणाद् ज्ञेयाः । सप्तैषणाः संस्पृष्टादयः । संसट्टा १, असंसट्टा २, उद्धड ३, अल्पलेपिका ४, उद्गृहीता ५, प्रगृहीता ६, उज्झितधर्मा ७, एषा सप्तविधैषणा ज्ञेया च पुनरन्ये येऽभिग्रहाः सन्ति, अभिग्रहा यथा द्रव्यक्षेत्रकालभावादिचिन्तनेन भिक्षाग्रहणरूपाः, दव्यतो मण्डकादिकं, क्षेत्रतो गृहादौ देहलिकातो मध्ये बहिर्वा, कालतो भिक्षाचरेषु निवर्त्तितेषु, भावतो रुदन् हसन् वा दास्यति, तदाहारो ग्राह्य इति चिन्तनेन भिक्षाग्रहणम् । एवं भिक्षाचर्याया भेदास्तीर्थङ्करैराख्याता:- कथिता इत्यर्थः ॥ २५ ॥
अथ रसत्यागाख्यं तप आह
खीरदहिसप्पिमाई, पणीयं पाणभोयणं ।
परिवज्जणं रसाणं तु, भणियं रसविवज्जणं ॥ २६ ॥
एतदसविवर्जनं-रसत्यागाख्यं तपस्तीर्थङ्करैर्भणितं, रसानां परिवर्जनं रसपरिवर्जनं, क्षीरं- दुग्धं, दधि, तथा सर्पिर्वृतं, क्षीरं च दधि च सर्पिश्च क्षीरदधिसर्पींषि एतान्यादिर्यस्य तत्क्षीरदधिसर्पिरादि, प्रणीतं - पुष्टिकारकं, पानं पानयोग्याहारं भोजनं भक्तं, रसविवर्धनं यस्मिन् पीते भुक्ते सति बहुकामोद्दीपनं स्यात्, तस्य परिवर्जनं रसत्यागाख्यं तप उच्यते, प्राकृतत्वात् षष्ठीस्थाने द्वितीया 'पणीयं पाणभोयणं परिवज्जणं' इत्यत्र ज्ञेया ॥ २५ ॥