________________
१५४]
[ उत्तराध्ययनसूत्रे - भाग - २
दिवसस्य चतसृणां पौरुषीणां प्रहराणां यावान् घटिकाचतुष्टयादिकोऽभिग्रहविषयः कालो भवति, एवममुना प्रकारेण कालेन चरमाण इति गोचर्यां चरतः साधोः : 'कालोमाणं' इति कालेनावमं कालावमं मन्तव्यम् ॥ २० ॥ पुन: कालावमौदर्यमेव प्रकारान्तरेणाह
: खलु निश्चयेन
अहवातईयापोरिसीए, ऊणाए घासमेसंते । चउभागूणाए वा, एवं कालेण ऊ भवे ॥ २१ ॥
अथवा तृतीयायां पौरुष्यामूनायां किञ्चिद्धीनायां ग्रासमाहारमेषयन्- गवेषणां कुर्वन्, वाऽथवा चतुर्भागेनोनायां तृतीयायां पौरुष्यां भिक्षाचर्या साधोरुक्तास्ति, एवं कालेनावमौदर्यं भवेत् ॥ २१ ॥
अथ भावावमौदर्यमाह
इत्थी वा पुरिसोवा, अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं च वत्थेणं ॥ २२ ॥
अन्त्रेण विसेसेणं, वन्नेणं भावमणुमुयंते उ । एवं चरमाणो खलु, भावोमाणं मुणेयव्वं ॥ २३ ॥ युग्मम् ॥
एवममुना प्रकारेण 'चरमाणो' इति प्राकृतत्वाच्चरमाणस्य भिक्षायां भ्रममाणस्य साधोः खलु इति निश्चयेन 'भावोमाणं' इति भावावमत्वं भावावमौदर्यं मुणितव्यं ज्ञेयमित्यर्थः । भावेनाऽवमौदर्यं भावावमौदर्य, कोऽर्थः ? यदा कश्चित्साधुरिति चिन्तयति, अद्य कश्चिद्दाता भावमेतादृशं स्वरूपं 'अणुमुयंते' इत्यनुमुञ्चन्नत्यजन्नेतादृशं स्वरूपं भजन् मह्यमाहारं दास्यति, तदाहं ग्रहीष्यामि, नान्यथेति भावः । को दाता ? कीदृशं च भावमत्यजन् ? तदाह-' इत्थी' इति स्त्री वा पुरुषो वा अलङ्कृत- आभरणादिसहितोऽथवाऽनलङ्कृतोऽलङ्कार रहितः, 'अन्नयरवयत्थो' अन्यतरवयःस्थो बालतरुणस्थविरादिकानां त्रयाणां वयसां मध्येऽन्यतरस्मिन्नेकस्मिन् वयसि स्थितः, अन्यतरेण पट्टकुलादिवस्त्रेणोपलक्षितः ॥ २२ ॥
अन्येन विशेषेण कुपितप्रहसितादिनाऽवस्थाभेदेनोपलक्षितः, वर्णेन श्वेतरक्तादिनोपलक्षितः, भावं पर्यायमुक्तरूपमलङ्कारादिकं 'अणुमुयंते' अनुमुञ्चन्नेतादृशः सन् मह्यमाहारं दास्यति, तदा लास्यामीत्यभिग्रहधारणेन भावावमौदर्यं ज्ञेयम् ॥ २३ ॥
अथ पर्यायावमौदर्यमाह
दव्वे खित्ते काले, भावंमि आहिया जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खु ॥ २४ ॥