________________
३०, तपोमार्गाख्यमध्ययनम्]
[१५३ यत्र सर्वदिग्भ्यो जनाः पतन्त्यागच्छन्तीति पत्तनम्, अथवा पत्तनं रत्नखानिरिति लक्षणं, तदपि द्विविधं, जलमध्यवर्ति स्थलमध्यवर्ति च । मडम्बं यस्य सर्वदिक्षु सार्धतृतीययोजनान्तर्गामो न स्यात् तत्र । तथा सम्बाधः प्रभूतचातुर्वर्ण्यनिवासः । कर्बटशब्दादारभ्य सम्बाधशब्दं यावद् द्वन्द्वसमासः कर्त्तव्यः, कर्बटंच द्रोणमुखं च पत्तनं च मडम्बंच सम्बाधश्च कर्बटद्रोणमुखपत्तनमडम्बसम्बाधास्तेषां समाहारः कर्बट-द्रोणमुख पत्तन-मडम्ब-सम्बाधं, तस्मिन् कर्बट-द्रोणमुख-पत्तन-मडम्ब-सम्बाधे एतेषु स्थानेष्वित्यर्थः ॥ १६ ॥
पुनः कुत्र कुत्रेत्याह-आश्रमपदे-तापसाश्रयोपलक्षिते स्थाने, विहारे-देवगृहे, पुनः सन्निवेशे-यात्राद्यर्थं समागतजनावासे, समाजः-परिषत्, घोष-आभीरपल्ली, समाजश्च धोषश्च समाजघोषं तस्मिन् समाजघोषे, तथा 'थलसेणाखंधारे' इति, स्थलं च सेना च स्कन्धावारश्च स्थलसेनास्कन्धावारं, तस्मिन् स्थलसेनास्कन्धावारे । तत्र स्थलमुच्चभूमिभागः, सेना -चतुरङ्गकटकसमूहः, स्कन्धावार:-कटकोत्तरणनिवासः, पुनः सार्थ:- क्रयाणकभृतां समूहः प्रतीत एव, तत्र तथा संवर्तो-भयत्रस्तजनसमवायः, कोट्टो-दुर्गः, संवर्तश्च कोदृश्च संवर्तकोट्ट, तस्मिन् संवर्तकोट्टे ॥१७॥ ___पुनर्वाटेषु वृत्त्यादिपरिक्षिप्तगृहसमूहेषु, रथ्यासु शेरिकासु, च गृहेषु प्रसिद्धेषु, एतेषु स्थानेष्ववमौदर्य कतं क्षेत्रतो भवति ॥१८॥ अथ पुनः प्रकारान्तरेण क्षेत्रावमौदर्यमाह
पेडा य अद्धपेडा, गोमुत्तिपयंगवीहिया चेव ।
संबुक्कावट्टायय-गंतुं पच्चागया छट्ठा ॥ १९ ॥ षड्विधा क्षेत्रावमौदरिका वर्तते, पेटा पेटाकारा चतुष्कोणा, 'पेटाकारेण गोचर्या कृत्वाऽवमोदरीकरणं, एवमर्धपेटाकारेण गोचरीकरणम्, गोमूत्रिकाकारेण, पतङ्गवीथिका पतङ्ग:- शलभस्तस्य वीथिकोड्डयनं पतङ्गवीथिका-अनियता निश्चयरहिता शलभोड्डयनसहशीत्यर्थः, पुनः शम्बूकावर्ता शम्बूकः-शङ्खस्तद्वदावा-भ्रमणं यस्यां सा शम्बूकावर्ता, सापि द्विविधा, अभ्यन्तरशम्बूका, बहिःशम्बूका च शङ्खनाभिरूपे क्षेत्रे मध्याबहिर्गम्यते साभ्यन्तरशम्बूकावर्ता, विपरीता बाह्यान्मध्ये आगमनरूपा बहिः शम्बूकावत पञ्चमी । पुनः षष्ठी आयतगन्तुंप्रत्यागमा ज्ञेया।आदित एवायतं-सरलं गत्वा यस्यां प्रत्यागमो भवति, सा षष्ठी ज्ञेयेत्यर्थः । एतासां भिक्षाचर्याणामप्यवमौदर्यत्वं ज्ञेयम् । यतो ह्यवमौदर्यार्थमेवेदृग्प्रकारेणैव साधुराहारार्थं भ्रमति, तस्मान्नात्र दोषः ॥ १९ ॥ ___ अथ कालावमौदर्यमाह
दिवसस्स पोरिसीणं, चउण्हं पि जत्तिओ भवे कालो ।
एवं चरमाणो खलु, कालोमाणं मुणेयव्वो ॥ २० ॥ १ यत्र चतुःश्रेणिव्यवस्थितगृहपङ्क्तिषु भ्रम्यते, मध्यगृहाणि च मुच्यन्ते सा पेटेत्यर्थः॥