________________
१५२]
[ उत्तराध्ययनसूत्रे-भाग-२ तत्र द्रव्यतोऽवमोदरिकमाह
जो जस्स उ आहारो, तत्तो 'ऊणं तु जो करे।
जहन्नेणेगसित्थाई, एवं दव्वेण ओ भवे ॥ १५ ॥ यस्य जीवस्य यावानाहार: स्यात् तत आहाराद्यदूनं कुर्यात्, जघन्येनैकसिक्थके, यत्रैकमेव सिक्थं भुज्यते, आदिशब्दात् सिक्थद्वयादारभ्य यावदेककवलभोजनम्, एतच्चाल्पाहाराख्यमवमोदर्यमाश्रित्योक्तम् । इदं चाष्टकवलान्तम् १ । अथ च नवकादारभ्य द्वादशभिः कवलैरपार्धक्यम् २ । त्रयोदशकादारभ्य षोडशान्तं द्विभागाख्यम् ३, सप्तदशकादारभ्य चतुर्विंशतिस्तत्पर्यन्तं प्राप्ताख्यम् ४, पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलभोजनं किञ्चिदूनमवमोदर्यमुक्तं च ५ । इत्येवं पञ्चविधमवमोदर्यम् । उक्तं च
"अप्पाहार १ अवड्डा २ दुभाग ३, पत्ता ४ तहेव किंचूणा ५ । . अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा य ५ ॥ १ ॥" एवं द्रव्येणोपाधिभूतेनावमौदर्यम् भवेत् ॥ १५ ॥ अथ क्षेत्रावमौदर्यमाह
गामे नगरे तह रायहाणि, निगमे य आगरे पल्ली। खेडे कब्बडदोणमुह-पट्टणमडंबसंबाहे ॥ १६ ॥ आसमपए विहारे, सन्निवेसे समायघोसे य । थलसेणाखंधारे, सत्थे संवट्टकोट्टे य ॥ १७ ॥ वाडेसु य रच्छासु य, घरेसु वा एवमेत्तियं खित्तं ।।
कप्पई उ एवमाई, एवं खित्तेण ओ भवे ॥ १८ ॥ एवमित्यमुना प्रकारेण हृदयस्थप्रकारेण एतावन्नियतमानं क्षेत्रं पर्यटितुं मम वर्तते इति, एवमादिर्गुहशालादिपरिग्रहः, अद्यैतावत्प्रमाणं भिक्षार्थं भ्रमितव्यमिति निर्धारणं क्षेत्रेणावमौदर्यं भवेत् । तदेव भिक्षाभ्रमणक्षेत्रमाह-कुत्र कुत्र भिक्षार्थं साधुर्भमति ? ग्रामे, गुणान् ग्रसतीति ग्रामस्तस्मिन् ग्रामे , अथवा ग्रसति सहतेऽष्टादशविधं करमिति ग्रामस्तस्मिन् अथवा कण्टकवाटकावृतो जनानां निवासी ग्रामस्तस्मिन् ग्रामे । पुनर्नगरे, न यत्र कराः सन्तीति नगरं तस्मिन् । तथा राजधान्यां, राजा धीयते यस्यां सा राजधानी, तस्यां राजधान्यां राजपीठस्थाने । निगमे प्रभूतवणिग्निवासे । आकर:-स्वर्णाद्युत्पत्तिस्थानं, तस्मिन्नाकारे । पल्ली वृक्षवंशादिगहनाश्रिता प्रान्तजनस्थानं, तस्यां पल्ल्यां।खेटं-धूलिप्राकारपरिक्षिप्तं, तस्मिन् खेटे । पुनः कर्बट-कुनगरं । दोणमुखं-जलस्थलनिर्गमप्रवेशं, तभृगुकच्छादिकं पत्तनं तु १ ओमं-अन्यसंस्करणे॥