________________
́ ३०, तपोमार्गाख्यमध्ययनम् ]
अत्र दृष्टान्तमाह
जहा महातलागस्स, संनिरुद्धे जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥ ५ ॥
यथा महातटाकस्य-महाजलाश्रयस्य जलागमे पानीयागमनमार्गे संनिरुद्धे सम्यक्प्रकारेण संवृते सति, 'उस्सित्रणाए' उत्सिञ्चनयोर्ध्वमरघट्टादिनोर्ध्वाकर्षणायाऽऽतपनेनरविकिरणादीनां सन्तापेन क्रमेण शोषणा - जलस्य शोषणं भवेत्, नवीनजलागमनमार्गो निरुध्यते, पूर्वस्थजलं च निष्कास्यते, तदा जलहृदो रिक्तः स्यादितिभावः ॥ ५ ॥ अथ दाष्टन्तिकमाह
एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्मं, तवसा निज्जरिज्जई ॥ ६ ॥
[ १४९
एवममुना प्रकारेण पापकर्मनिराश्रवे सति, पापकर्मणां प्राणिवधाद्यानां निरोधे सति संयतस्यापि साधोरपि तपसा द्वादशविधेन भवकोटीसञ्चितं कर्म निर्जीर्यते, आधिक्येन क्षयं नीयते । अत्र कोटीग्रहणं बहुत्वोपलक्षणम्, कोटीनियमस्याऽसम्भवात् ॥ ६ ॥ अथ तपोभेदमाह
सो तवो दुविहो वृत्तो, बाहिरब्भितरो तहा ।
बाहिरो छव्विहो वुत्तो, एवमब्भिन्तरो तवो ॥ ७ ॥
तत्तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यन्तरं ' बाह्यं' षड्विधं प्रोक्तं, एवममुना प्रकारेणाभ्यन्तरमपि षड्विधं प्रोक्तम् ॥ ७ ॥
प्रथमं बाह्यं षड्विधमाह
अणसणमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया, य बज्झो तवो होइ ॥ ८ ॥
अनशनमुपवासः, एकस्मादुपवासादारभ्य षण्मासिकपर्यन्तमनशनं तप उच्यते १, द्वात्रिंशत्कवलप्रमाणमाहारः प्रत्यहमेकैकेन कवलेन न्यूनीकुर्वन् यावदेकस्मिन् कवले स्थायते, सोनोदरिका, ऊनोदरे भवमूनोदरिकं तपः २, प्राकृतत्वाल्लिङ्गव्यत्ययः, भिक्षाचर्या भिक्षयाऽऽहारग्रहणार्थमुच्चावचगृहेषु भ्रमणम् ३, रसत्यागः विकृतिनां परित्यागः ४, कायक्लेशस्तापशीतादीनां सहनम् ५, संलीनताङ्गोपाङ्गादिकं संवृत्य प्रवर्तनं ६, एतत् षड्विधं बाह्यं तपो भवति ॥ ८ ॥
૧૧