________________
१४८ ]
[ उत्तराध्ययनसूत्रे - भाग - २
॥ ३० तपोमार्गाख्यमध्ययनम् ॥
पूर्वस्मिन्नध्ययनेऽप्रमत्तत्वं वीतरागत्वसम्यक्त्वपराक्रमत्वं चोक्तं तेनाप्रमत्तेन सम्यक्त्वपराक्रमवता मोक्षमार्गाय तपस्युद्यमो विधेयः, अतस्तपोमार्गाध्ययनं त्रिंशत्तमं च कथ्यतेजहा उ पावयं कम्मं, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥ १॥
यथा येन प्रकारेण भिक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जितं कर्म क्षपयति, तुशब्दः - पादपूरणे, तं तपोमार्गमेकाग्रमनाः सावधानचित्तः सन् त्वं श्रृणु । हे जम्बू ! अहं वदामीति सम्बन्धः, अनाश्रवेणैव किल कर्मक्षयः क्रियते ॥ १ ॥
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राई भोयणविरओ, जीवो हवह 'निरासओ ॥ २॥
हे शिष्य ! ईदृशो जीवो निराश्रवो भवति । कीदृश: ? प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतो रहितः, पुना रात्रिभोजनविरतः ॥ २ ॥
पुनरनाश्रवो यथा जीवो भवति, तथाह
पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ ।
अगारवो य निस्सल्लो, जीवो हवइ अनासवो ॥ ३ ॥
एतादृशो जीवोऽनाश्रवो भवति, आश्रवरहितो भवति । कीदृशो जीवः ? पञ्चभिः समितिभिः समितः-सहितः पञ्चसमितः, पुनस्तिसृभिर्गुप्तिभिर्गुप्तः, पुनरकषायः- कषायरहितः, पुनर्जितेन्द्रियः - वशीकृतेन्द्रियः, पुनरगारव - ऋद्धिरससातादिगर्वत्रयरहितः, पुनर्निशल्यो मायानिदानमिथ्यादर्शनशल्यैस्त्रिभी रहितः, एतादृशो जीवोऽनाश्रवो भवति ॥ ३ ॥ एवंविधो ऽनाश्रवश्च यथा कर्म क्षपयति तथा वदति
एएसिं तु विवच्चासे, रागद्दोससमज्जियं ।
खवेइ उ जहा भिक्खू, तमेगग्गमणी सुण ॥ ४ ॥
हे शिष्य ! यथा येन प्रकारेण भिक्षुः साधुरेतेषां पूर्वोक्तानां प्राणातिपातमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनविरतिलक्षणानां व्रतानां, तथा समितिगुप्त्यादिलक्षणानामनाश्रवकारणानां विपर्यासे-वैपरीत्ये प्राणिवधमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनसमित्यभावसेवने सति रागद्वेषाभ्यां समर्जितं सञ्चितं पापकर्म क्षपयति, तं प्रकारमेकाग्रमनाएकचित्तः सन् त्वं श्रृणु ॥ ४ ॥
१ अणासवो- मु. २, अन्यसंस्करणे च ॥