________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१४७ भाषाद्रव्यसाचिव्यजनितजीवव्यापार निरुणद्धि । तं निरुध्य च काययोगं-कायव्यापारं निरुणद्धि । तं निरुध्य चानप्राणनिरोधं-श्वासप्रश्वासयोनिरोधं करोति । तन्निरोधं कृत्वायोगत्रयनिरोधं कृत्वेषत्स्वल्पप्रयासेन यथोच्चार्यते, तथा पञ्चानां ह्रस्वाक्षराणामुच्चारकालेन, यावता कालेनेषत्प्रयासेन पञ्चाक्षराणि 'अ इ उ ऋ लु' इत्येतानि कथ्यन्ते, तावता कालेनानगारः समुच्छिन्नक्रियं, सम्यगुच्छिन्नास्त्रोटिताः क्रिया यत्र तत्समुच्छिन्नक्रियं पुनरनिवृत्तिशुक्लध्यानं-शुक्लध्यानस्य चतुर्थभेदरूपं ध्यायन् शैलेश्यवस्थामनुभवन् सन् वेदनीयं १, आयुः २, नाम ३, गोत्रं ४, चैतांश्चत्वारः कर्मांशान्, एतानि चत्वारि सत्कर्माणि विद्यमानानि कर्माणि युगपत्समकालं क्षपयति ॥ ७२ ॥
तओ ओरालियकम्माइं च सव्वाहिं विप्पहाणाहिं विप्पजहित्ता उजुसेढी पत्ते अफुसमाणगई उर्दू एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ॥७३॥
ततः पश्चाद्वेदनीयादिचतुष्कर्मक्षयीकरणादनन्तरमौदारिककार्मणे,चशब्दात्तैजसमपि, एतच्छरीरत्रयमपि सर्वाभिर्विप्रहाणिभिर्विप्रहाय, विशेषेण प्रहाणयो विप्रहाणयः, ताभिविशेषेण प्रहाय-परिशाट्यऋजुश्रेणि प्राप्तः,ऋजुः- सरला चासौ श्रेणिश्च ऋजुश्रेणिस्तामृजुश्रेणिम्, सरलाकाशप्रदेशपङ्क्ति गतः पुनरस्पृशद्गतिः सन्, यावन्तः समोर्ध्वश्रेण्यामाकाशप्रदेशावगाह्यमानास्तानेव स्वप्रदेशैः स्पृशन्नधिकान्न स्पृशन् जीवो यया गत्या व्रजति तादृग्गतिधरः सन्नूर्ध्वग एकेन समयेन विग्रहगत्यभावेन तत्र मोक्षस्थाने गत्वा साकारोपयुक्तो ज्ञानोपयोगयुक्तः सन् सिद्ध्यति बुद्ध्यति परिनिर्वाति सर्वदुःखानामन्तं करोति ॥७३॥
अथ प्रश्नोत्तरोपसंहारमाह
एस खलु सम्मत्तपरिक्कमस्स अज्झयणस्स अटेसमणेणं भगवया महावीरेणं आघविए पन्नविए परूविए दंसिए णिदंसिए उवदंसिए ॥७४ ॥त्ति बेमि ॥
हे जम्बू ! एष इदानीमुक्तः, खलु निश्चयेन सम्यक्त्व-पराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता ज्ञानवता श्रीमहावीरेण 'आघविएत्ति' आर्षत्वा-दाख्यातः, पुनः प्रज्ञापितः सामान्यविशेषपर्यायैर्व्यक्तीकरणेन प्रकटीकृतः । पुनः प्ररूपितो हेतुफलादिप्रकर्षज्ञापनेन प्ररूपितः, पुनर्दर्शितो नानाभेदैर्दर्शनेन प्रकाशितः । पुनर्निदर्शितो दृष्टान्तोपन्यासेन दृढीकृतः पुनरुपदर्शितस्वरूपकथनेन ज्ञापितः उपसंहारेण वा ज्ञापितः, इत्यहं बवीमि, इति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥७४ ॥
इति सम्यक्त्वपराक्रमाख्यमध्ययनं सम्पूर्णम् ॥ २९ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सम्यक्त्वपराक्रमाख्यमध्ययनमेकोनत्रिंशत्तमं सम्पूर्णम् ॥ २९ ॥