________________
१४६]
[ उत्तराध्ययनसूत्रे-भाग-२ ततः पश्चादनन्तरं-तेषां कर्मणां क्षयीकरणादनन्तरमनुत्तरं सर्वेभ्यः प्रधानं, अनन्तमनन्तार्थग्राहकं, कृत्स्नं समस्तवस्तुपर्यायग्राहकं, प्रतिपूर्ण सकलैः स्वपरपर्यायैः सहितं, निरावरणं समस्तावरणरहितं, वितिमिरमज्ञानांशरहितं, विशुद्धं सर्वदोषरहितं, लोकालोकप्रभावकं-लोकालोकयोः प्रकाशकारकम्, एतादृशं केवलज्ञानदर्शनं समुत्पादयति, यावत्सयोगी भवति, मनोवाक्कायानां योगो व्यापारस्तेन सह वर्तते इति सयोगी भवति, त्रयोदशगुणस्थाने यावत्तिष्ठति, तावदीर्यापथिकं कर्म बघ्नाति । ईरणमीर्या-गतिस्तस्याः पन्था ईर्यापथः, ईर्यापथे भवमीर्यापथिकम्, पथो ग्रहणं ह्युपलक्षणं, तस्य तिष्ठतोऽपि सयोगस्ये या सम्भावत्, सयोगतायां केवलिनोऽपि सूक्ष्मसञ्चाराः सन्ति ।
तदीर्यापथिकं कर्म कीदृशं भवति ? तदुच्यते- सुखयतीति सुखः, सुखः-सुखकारी स्पर्श, आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुखस्पर्श, द्विसमयस्थितिकं, द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थितिरस्येति द्विसमयस्थितिकम्।तद्विसमयस्थितिकस्वरूपमाहप्रथमसमये बद्धं, स्वस्य स्पर्शनायाधीनं कृतम्, आधीनकरणात्स्पृष्टमपि द्वितीये समये तबद्धं स्पष्ट वेदितं-कायेनानुभूतम् । तृतीयसमये निर्जीर्णं परिशाटितं, निष्कषायस्योत्तरकालस्थितेरभावो वर्तते, उत्तरकाले सकषायस्य बन्धो भवति, परं केवलिनो न भवति, तदेव पुनः सूत्रकारो भ्रान्तिनिवारणार्थमाह-तदीर्यापथिकं कर्म केवलिनो बद्धमात्मप्रदेशैः सह श्लिष्टं- स्पृष्टं व्योम्ना पटवत्, तथा स्पृष्टं मसृणमपि कोमलमपि कुड्यापतितशुष्कचूर्णवदिति विशेषणद्वयेन केवलिनो हि निधत्तनिकाचितावस्थयोरभावः । पुनरुदीरितमुदयप्राप्तं सद्वेदितमनुभूतं, केवलिनो ह्युदीरणा न भवति, ततो निर्जीण क्षयमुपगतम् । ततः 'सेयाले' इति एष्यत्काले-आगामिनि कालेऽकर्मा चापि भवति, कर्मरहितो भवतीत्यर्थः ।।७१ ॥
अथ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह__ अहाउयं पालयित्ता अंतोमुत्तवसेसाउए जोगनिरोहं करेमाणे सुहुमकिरियं अप्पडियाई सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरंभइ, मणजोगं निरुभित्ता वयजोगं निरंभइ, वयजोगं निरूभित्ता कायजोगं निरंभइ, कायजोगं निरुभित्ता आणपाणनिरोहं करेइ, आणपाणनिरोहं करित्ता इसिं पंचहस्सक्खरुच्चारधाए णं अणगारे समुच्छिन्नकिरियं अनियट्टिसुक्कज्झाणं झियायमाणे वेयणिज्ज आउयं नाम गोयं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ।। ७२ ॥ ___अथ केवलप्राप्तेरनन्तरमायुष्कं देशोनपूर्वकोटिप्रमितमायुः प्रपाल्य,अथवाऽन्यदप्यायुः पालयित्वान्तर्मुहूर्तावशेषायुष्को, यदा केवलिनोन्तर्मुहूर्तप्रमाणमायुस्तिष्ठति, तदा केवली योगं मनोवाक्कायव्यापारं, तस्य निरोधं कुर्वाणः सन्, सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियमप्रतिपातिशुक्लध्यानं, शुक्लध्यानस्य तृतीयभेदलक्षणं, तद्धयायंस्तत्प्रथमतया प्रथमतो मनोयोगो-मनोव्यापारो मनोद्रव्यजनितो जीवव्यापारस्तं निरुणद्धि । तं निरुध्य च वचोयोगं