________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम्]
[१४५ ___ हे भगवन् ! लोभविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! लोभविजयेन जीवः सन्तोषिभावं, सन्तोषिणो भावः सन्तोषिभावस्तमुत्पादयति, लोभवेदनीयं कर्म न बध्नाति, पूर्वनिबद्धं च कर्म निर्जरयति ॥७०॥
कषायविजयिना साधुना रागद्वेषमिथ्यादर्शनविजयः कर्त्तव्यः, अतस्तेषां जयफलं प्रश्नपूर्वकमाह
__ पिज्जदोसमिच्छादसणविजएणं भंते जीवे किं जणयइ ? पिज्जदोसमिच्छादंसणविजएणं नाणदंसणचरित्ताराहणाए अब्भुटेइ, अट्ठविहस्स कम्मस्स गंठिविमोयणट्ठाए तप्पढमयाए जहाणुपुव्विए अट्ठावीसइविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं, नवविहं दंसणावरणिज्जं पंचविहमंतरायं, एए तिन्निवि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धलोगालोगप्पभावयं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव इरियावहियं कम्म बंधइ, सुहफरिसं दुसमयठिइयं तं पढमसमए बद्धं, बीयसमए वेइयं, तईयसमए निज्जिण्णं तं बद्धं पढें उईरिअं वेइ निज्जिण्णं सेयाले अकम्म चावि भवइ ॥७१ ॥
हे भदन्त ! स्वामिन् ! प्रेय्यद्वेषमिथ्यादर्शनविजयेन जीवः किं फलं जनयति ? तत्र प्रेय्यशब्देन प्रेमरागः, द्वेषः प्रसिद्धः, मिथ्यादर्शनं संशयादिभिर्विपरीतमतित्वं, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेषमिथ्यादर्शनानि, तेषां विजयः प्रेय्यद्वेषमिथ्यादर्शनविजयस्तेन जीवः किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! मिथ्यादर्शनविजयेन जीवो ज्ञानदर्शनचारित्राणामाराधनायै अभ्युत्तिष्ठते, सावधानो भवति, अभ्युत्थाय चाष्टविधकर्मणां ग्रन्थि घातिकर्मणां कठिनजालं विमोचनार्थं क्षपयितुमभ्युत्तिष्ठते-सावधानो भवति ।
अथ कर्मग्रन्थिविमोचनेऽनुक्रममाह-तत्प्रथमतया यथानुक्रममष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति, क्षपक श्रेणिमारूढः सन् क्षपयति-षोडशकषायाः, नवनोकषायाः, मोहनीयत्रयं, एवमष्टाविंशतिविधं मोहनीयकर्म विनाशयति । ततश्चरमसमये यत्क्षपयति तत्क्रममाह-मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणरूपं कर्म, पश्चान्नवविधं दर्शनावरणीयं कर्म, चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनावरणं, निदापञ्चकं, चैवं नवविधं दर्शनावरणीयं कर्म , ततः पश्चात्पञ्चविधमन्तरायं, एतानि त्रीणि 'कम्मंस्से' इति सत्कर्माणि विद्यमानानि त्रीणि कर्माणि युगपत्क्षपयति, क्षपकश्रेणीमारूढः सन् समकालं क्षयं नयतीत्यर्थः।