________________
१५०]
[ उत्तराध्ययनसूत्रे-भाग-२ अथेतेषामेव स्वरूपमाह
इत्तरियमरणकाला, अणसणा दुविहा भवे।
इत्तरियसावकंखा, निरवकंखा बिइज्जिया ॥९॥ अनशनं द्विविधं भवति, इत्वरिकं - इत्वरे स्तोके काले भवमित्वरिकमल्पकालं नियत-कालावधिकमित्यर्थः । मरणावसानः कालो यस्याः सा मरणकाला, इति द्वितीयम्, यावज्जीवमित्यर्थः । स्त्रीलिङ्गत्वं प्राकृतत्वात् । इत्वरिकं तपः सावकाक्षं भवति, सह अवकाङ्क्षया वर्तते इति सावकाक्षं, घटिकाद्वयाद्यनन्तरमहं भोजनं विधास्यामीतिवाञ्छासहितमित्यर्थः । द्वितीयं यावज्जीवं निरवकाङ्क्षमाहारप्रत्याख्यानादारभ्य तज्जन्मनि भोजनाशाऽसम्भवाद् वाञ्छारहितमित्यर्थः ॥९॥
जो सो इत्तरियतवो, सो समासेण छव्विहो ।
सेढितवो पयरतवो, घणो य तह होइ वग्गो य ॥१०॥ यत्त्वित्वरिकं तपस्तत्समासेन-सङ्क्षपेण षड्विधं भवति, विस्तरस्तु द्वासप्ततिविधं ७२ भेदम्, अथ षड्विधत्वमाह-श्रेणितपः १, प्रतरतपः २, घनतपः ३, तथा वर्गतपः ४, श्रेणिः- पङ्क्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते, तत्प्रथमतो भवति । तथा श्रेणिरेव श्रेण्या गुणिता प्रतरस्तदुपलक्षितं तपः प्रतरतपः । इह सुबोधार्थं चतुर्थं षष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा चतुर्भिर्गुणिता षोडशपदात्मकं प्रतराख्यं तपो भवति । तत्प्रतरतपः षोडशपदात्मकमेव यदा पदचतुष्टयात्मिकया श्रेण्या गुण्यते, तदा घनाख्यं तपो भवति, 'सोल चउका चउसट्ठि' इति भावः । अथ पुनर्यदा घनश्चतुःषष्टिपदात्मैका घनेनैव चतुःषष्टिपदात्मैकेनैव गुण्यते, तदा वर्गो भवति, तदुपलक्षितं तपो वर्गतप उच्यते । चतुःषष्टिश्चतुःषष्टया गुणितानि जातान्यङ्कानि षण्णवत्यधिकानि चत्वारि सहस्राणि ४०९६ ॥१०॥ अथ पञ्चमषष्ठभेदावाह
तत्तो य वग्गवग्गो, पंचमो छटुओ पइन्नतवो। .. मणइच्छियचित्तत्थो, नायव्वो होइ इत्तरिओ ॥११॥ तत इति ततो वर्गतपोऽनन्तरं वर्गवर्ग इति पञ्चमः तपो ज्ञेयम् ।वर्ग एव वर्गाद्गुणितो वर्गवर्गों भवति, यथा चैककोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्त्राणि द्विशती षोडशाधिका अङ्कतो भवति १६७७७२१६ । एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते इत्यर्थः - एवं पञ्चादिपदेष्वपि भावना कर्तव्या। तथा षष्ठकं तपो यत् श्रेण्यादिनियतरचनारहितं निजशक्त्या नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वज्रमध्य-चन्द्रप्रतिमादि चेति, तत्प्रकीर्णतपः