________________
[१४१
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ] यतो हि वाक्समाधारणं कुर्वन् स्वाध्यायं करोति, स्वाध्यायं कुर्वन् द्रव्यानुयोगाद्यभ्यासं विदधदनेकनयज्ञो भूत्वा शङ्कादिदोषान्निवारयति । अतः सम्यक्त्वं निर्मलं करोति । यतो वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभबोधित्वं निवर्तयति । सुलभबोधिः परभवे जैनधर्मप्राप्तिर्यस्य स सुलभबोधिस्तस्य भावः सुलभबोधित्वं, तदुत्पादयति, दुर्लभबोधित्वं निर्जरयति - क्षपयति ॥५७ ॥
अथ कायसमाधारणाया अपि फलमाह
कायसमाहारणयाए णं भंते जीवे किं जणयइ ? कायसमाहारणयाए णं जीवे चरित्तपज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ ॥५८ ॥
___ हे भगवन् ! कायसमाधारणया जीवः किं जनयति? कायस्य समाधारणा संयमयोगेषु देहस्य सम्यग्व्यवस्थापना कायसमाधारणा, तया जीवः किं फलमुत्पादयति ? तदा गुरुराहहे शिष्य ! कायसमाधारणया चारित्रपर्यवान् चारित्रभेदान् क्षायोपशमिकान् विशोधयति । चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, यथाख्यातचारित्रं निर्मलं कुरुते । ननु यथाख्यातचारित्रमविद्यमानं कथं निर्मलं भवति ? अत्रोत्तरं-यथाख्यातचारित्रं सर्वथाऽविद्यमानं नास्ति, अविद्यमानस्य निर्मलाऽसम्भवात्, तस्माद्यथाख्यातचारित्रं पूर्वमस्ति, परं चारित्रमोहनीयेन मलिनमस्ति । तदेव यथाख्यातचारित्रं चारित्रमोहोदयनिर्जरेण निर्मलीकुरुते । यथाख्यातचारित्रं विशोध्य चतुरः केवलिसत्कर्मांशान्, चत्वारि विद्यमानकर्माणि घनघातीनि वेदनीयायुर्नामगोत्रलक्षणानि भवोपग्राहीणि क्षपयति । ततः सिद्ध्यति बुद्धयति च ॥५८ ॥
एवं समाधारणात्रयमुक्त्वा यथाक्रमं ज्ञानादित्रयस्य सम्पन्नतायाः फलं प्रश्नपूर्वकमाह
नाणसंपन्नयाए णं भंते जीवे किं जणयइ ? नाणसंपन्नायए णं जीवे सव्वभावाभिगमं जणयइ, नाणसंपन्ने णं जीवे चाउरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिया न विणस्सई, तहा जीवोवि ससुत्तो संसारे न विणस्सइ, णाणविणयतवचरित्तजोगे संपाउणइ, 'ससमयपरसमयविसारए संघायणिज्जे भवइ ॥५९ ॥ - हे भदन्त ! ज्ञानसम्पन्नतया, ज्ञानस्य श्रुतज्ञानस्य सम्पन्नता श्रुतज्ञानसम्पत्तिस्तया जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! श्रुतज्ञानसम्पन्नतया जीवः सर्वभावा१ ससमयपरसमयसंघायणिज्जे-केचित् संस्करणे । ससमयपरसमयविसारए य असंघायणिज्जे भवइकश्चित् संस्करणे । 'विसारए' इति शब्दस्य व्याख्या क्वाऽपि न दृश्यते ॥