________________
१४२]
[उत्तराध्ययनसूत्रे-भाग-२ भिगम, सर्वे च ते भावाश्च सर्वभावा-जीवाजीवादयस्तेषामभिगमः सर्वभावाभिगमस्तं सर्वभावाभिगम-जीवाजीवादितत्त्वज्ञानं जनयति । तथा ज्ञानसम्पन्नो जीवश्चतुरन्तसंसारकान्तारे-चतुर्गतिलक्षणे संसारवने न विनश्यति, मोक्षाद्विशेषेण दूरं नाऽदृश्यो भवति । यथा हि ससूत्रा सूची कचवरादिषु पतिता सती न नश्यति, अदृश्या न भवति, नाशं न प्राप्नोति, तथा जीवोऽपि ससूत्रः श्रुतज्ञानसहितः संसारे विनष्टो न भवतीति भावः । ततश्च श्रुतज्ञानी ज्ञान विनयतपश्चारित्रयोगान् सम्प्राप्नोति । ज्ञानं च विनयश्च तपश्च चारित्रयोगाश्च ज्ञानविनयतपश्चारित्रयोगास्तान् सम्यक् प्रकारेण प्राप्नोति । तत्र ज्ञानमवध्यादि, विनयः प्रसिद्धः, तपो द्वादशविधं, चारित्रयोगाश्च चारित्रव्यापारास्तान् सर्वान् लभते । पुनः श्रुतज्ञानी स्वसमयपरसमयसङ्घातनीयो भवति, स्वमतपरमतयोः सङ्घातनीयो-मीलनीयः स्यात् । एतावता स्वमतपरमताभिज्ञत्वेन प्रधानपुरुषत्वात् पण्डितेषु गणनीयो भवतीति भावः ॥५९॥
दंसणसंपन्नयाए णं भंते जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तछेयणं करेइ, परं नो विज्झाइ, 'परं अणुज्झायमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्म भावमाणे विहरइ ॥६०॥
हे भगवन् ! दर्शनसम्पन्नतया दर्शनस्य क्षायोपशमिकस्य सम्पन्नता दर्शनसम्पन्नता, तया दर्शनसम्पन्नतया क्षयोपशमसम्यक्त्वसहितत्वेन जीवः किं फलं जनयति ? तत्र गुरुरुत्तरमाह-हे शिष्य ! दर्शनसम्पन्नतया जीवो भवमिथ्यात्वच्छेदनं करोति, अर्थात् क्षायिकसम्यक्त्वं प्राप्नोति, परं - ततः पश्चान्न विध्यापयति, ज्ञानदर्शनचारित्राणां प्रकाशं नो निवारयति । ततः परं च ज्ञानदर्शनचारित्राणां प्रकाशमविध्यापयन् - ज्ञानदर्शनचारित्राणां तेजोऽविनाशयन्ननुत्तरेण सर्वोत्कृष्टेन क्षायिकत्वात्प्रधानेन ज्ञानदर्शनेनात्मानं संयोजयन्, सम्यक् प्रकारेणात्मानमात्मनैव वशीकुर्वन् विहरति, भवस्थकेवलतया मुक्ततया वा विचरतीति भावः ॥६० ॥ ___ चरित्तसंपन्नयाए णं भंते जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसी पडिवन्ने य अणगारे चत्तारि केवलकम्मंसे खवेइ, तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सव्वदुक्खाणमंतं करेइ ॥६१॥
हे स्वामिश्चारित्रसम्पन्नतया, चारित्रेण यथाख्यातचारित्रेण सम्पन्नता चारित्रसम्पन्नता तया, यथाख्यातचारित्रसहितत्वेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! चारित्रसम्पन्नतया यथाख्यातचारित्रसहितत्वेन शैलेशीभावं जनयति । शैलानां पर्वतानामीशः शैलेशो-मेरुस्तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभावस्तमुत्पादयति । अंशशब्दः १ परं अणुज्झायमाणे नास्ति अन्यस्मिन् संस्करणे ॥