________________
१४०]
[ उत्तराध्ययनसूत्रे-भाग-२ हे भदन्त ! वचोगुप्ततया जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! वचोगुप्ततया निर्विकारत्वं विरागभावमुत्पादयति । निर्विकारो जीवो वाग्गुप्तो गुप्तवचनश्च सर्वविकथात्यागाद्वाग्निरोधी-वाग्गुप्तिमान् सन्नध्यात्मयोगसाधनयुक्तश्चापि भवति । आत्मन्यधितिष्ठतीत्यध्यात्मं मनस्तस्य योगाः शुभव्यापारा धर्मध्यानादयस्तेषां साधनमेकाग्यमध्यात्मयोगसाधनं, तेन युक्तोऽध्यात्मयोगयुक्तः । तादृशश्चापि स्यादित्यर्थः ॥५४ ॥
अथ तृतीयगुप्तेः फलं प्रश्नपूर्वकमाह
कायगुत्तयाए णं भंते जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥
हे भदन्त ! कायगुप्ततया जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायगुप्ततया जीवः संवरं जनयति, संवरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति ॥ ५५ ॥
अथ गुप्तित्रयधारकस्य साधोर्मनोवाक्कायानां समाधारणा भवति, अतस्तत्फलं प्रश्नपूर्वमाह
मणसमाहारणयाए णं भंते जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निज्जरेइ ॥५६ ॥
हे भदन्त ! मन:समाधारणया जीवः किं जनयति ? मनसः सम्यक् प्रकारेण आमर्यादया सिद्धान्तोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! मनःसमाधारणया मनसो मर्यादया रक्षणेनैकाग्ग्रं धर्मे स्थैर्यं जनयति । धर्मे एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्त्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धि जनयति, मिथ्यात्वं च निर्जरयति - निवारयति ॥५६॥
वच:समाधारणाया अपि फलमाह
वयसमाहारणयाए णं भंते जीवे किं जणयइ ? वयसमाहारणयाए णं वयसाहारणदंसणपज्जवे विसोहेइ, वयसाहारणदसणपज्जवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निज्जरेइ ॥५७ ॥
__ हे भगवन् ! सिद्धान्तोक्तमार्गे वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान् विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा दर्शनस्य-सम्यक्त्वस्य ये पर्यवा भेदास्तान् विशोधयति-निर्मलीकरोति ।