________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१३९ अब्भुढेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणायाएणं अब्भुढेत्ता परलोगधम्मस्स आराहए भवइ ॥५०॥
हे भदन्त ! भावसत्येन, भावेऽभ्यन्तरात्मनि सत्यं भावसत्यं, तेन भावसत्येन जीवः किं जनयति ? गुरुराह-हे शिष्य ! भावसत्येन जीवो भावविशुद्धि जनयति, निर्मलाध्यवसायं जनयति । भावविशुद्धौ वर्तमानोऽर्हत्प्रज्ञप्तस्य-श्रीजिनप्रणीतस्य धर्मस्याराधनायै अभ्युत्तिष्ठति सावधानो भवति अर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै अभ्युत्थाय सावधानो भूत्वा परलोके धर्मस्याराधको भवति । परलोके सम्यग्गतिं प्राप्य धर्ममाराधयतीत्यर्थः ॥५०॥
भावसत्यं च करणसत्ययुक्त सम्भवति, अतः करणसत्यस्य फलं प्रश्नपूर्वकमाह
करणसच्चेणं भंते जीवे किं जणयइ ? करणसच्चेणं करणसत्ति जणयइ, करणसच्चे वट्टमाणे जीवे जहावाई तहाकारी आवि भवइ ॥५१॥
हे भदन्त ! करणसत्येन जीवः किं जनयति ? करणे प्रतिलेखानादिक्रियायां सत्यं यथोक्तविधिनाऽऽराधनं करणसत्यं, तेन करणसत्येन जीवः किं फलमुपार्जयति ? तदा गुरुराह-हे शिष्य ! करणसत्येन करणशक्ति-क्रियासामर्थ्यं जनयति । पुनः करणसत्ये वर्तमानो जीवो यथावादी तथाकारी भवति । क्रियासत्यः पुमान् यादृशं सूत्रार्थं पठति, यादृशं क्रियाकलापं वदति, तथैव करोतीति भावः ॥५१॥
एवंविधस्य योगसत्यमपि स्यात्, अतो योगसत्यस्य फलं प्रश्नपूर्वमाहजोगसच्चेणं भंते जीवे किंजणयइ ? जोगसच्चेणंजोगे विसोहड़ ॥५२॥
हे भदन्त ! योगसत्येन, मनोवाक्काययोगानां सत्यं योगसत्यं, तेन योगसत्येन मनोवाकायसाफल्येन जीवः किं जनयति? तदा गुरुराह-हेशिष्य ! योगसत्येन योगान् विशोधयति, मनोवाक्काययोगान् विशदीकरोति, कर्मबन्धाऽभावान्निर्दोषान् करोतीति भावः ॥५२॥
इदं सत्यं हि गुप्तिसहितस्य भवति, गुप्तीनामादौ मनोगुप्तिरस्ति, तस्मात्पूर्वं तस्याः फलं प्रश्नपूर्वकमाह___मणगुत्तयाए णं भंते जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥५३ ॥
हे भदन्त ! मनोगुप्ततया जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! मनोगुप्ततया जीव एकाग्यं धर्मे एकान्तत्वमुपार्जयति । एकाग्रचित्तो जीवो गुप्तमनाः सन् संयमस्याराधकः पालको भवति ॥ ५३ ॥
अथ वचोगुप्तिफलमाह
वयगुत्तयाए णं भंते जीवे किं जणयइ ? वयगुत्तयाए णं निव्वियारत्तं जणयइ, निव्वियारेणं जीवे वयगुत्ते अज्झप्पजोगसाहणजुत्ते आविभवइ ॥५४॥